Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan

View full book text
Previous | Next

Page 236
________________ सटीकश्रावकप्रज्ञ त्याख्यप्रकरणं / [ 231 ] [ यच्चातिचारसूत्रं श्रमणोपासकपुरस्सरं भणितम् / / तस्मानास्यां यतिः परिणामादेव अपि च गृही॥३८४॥] यच्च यस्माच्च अतिचारसूत्रमस्याः श्रमणोपासकपुरःसरं भणितमागमे तच्चेदं "इमीए समणोवासएणं इमे पंचइयारा जाणियन्वा न समायरियव्वा तं जहा इहलोगासंसप्पओगेत्यादि" तस्मानास्यां संलेखनायां यतिरसौ श्रावकः अपि च गृहीत संबन्धः किं तु श्रावक एवेत्यर्थः कुत इत्याह परिणामादेव तस्यामपि देशविरतिपरिणामसंभवादनशनप्रतिपत्तावपीषन्ममत्वापरित्यागोपलब्धेः सर्वविरतिपरिणामस्य दुरापत्वात्सति तु तस्मिन् स्यात् यतिरिति * सूत्रान्तरतश्च यत उक्तं सूत्रकृतांगे इत्यादीति / इयमपि चातिचाररहिता सम्यक्पालनीयेति तानाहइहपरलोगासंसप्पओग तह जीयमरणभोगेसु / वज्जिज्जा भाविज्ज य असुहं संसारपरिणाम। [ इहपरलोकाशंसाप्रयोगौ तथा जीवितमरणभोगेषु / वर्जयेत् भावयेचाशुभं संसारपरिणामम् // 385 // ] इह लोको मनुष्यलोकः तस्मिन्नाशंसाभिलाषः तस्याः प्रयोग इति समासः श्रेष्ठी स्याममात्यो वेति / 1 / एवं परलोकाशंसाप्रयोगः परलोको देवलोकः / 2 / एवं जीविताशंसाप्रयोगः जीवितं प्राणधारणं तत्राभिलाषप्रयोगः “यदि

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246