Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan

View full book text
Previous | Next

Page 237
________________ [ 232 ] सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / बहुकालं जीवेयम्" इति / इयं च वस्त्रमाल्यपुस्तकवाचनादिपूजादर्शनाद्बहुपरिवारदर्शनाच्च लोकश्लाघाश्रवणाचवं मन्यते " जीवितमेव श्रेयः प्रत्याख्याताशनस्यापि यत एवंविधा मदुद्देशेनेयं विभूतिवर्तते / 3 / मरणाशंसाप्रयोगः न कश्चित्तं प्रतिपन्नानशनं गवेषते सपर्यायामाद्रियते न कश्चिच्छलाघते ततस्तस्यैवंविधचित्तपरिणामो भवति " यदि शीघ्र म्रियेऽहं अपुण्यकर्मेति मरणाशंसा / 4 / कामभोगाशंसाप्रयोगः जन्मान्तरे चक्रवर्ती स्याम् वासुदेवो महामण्डलिकः सुभगो रूपवानित्यादि एतद्वर्जयेद्भावयेच्चाशुभं जन्मपरिणामादिरूपं संसारपरिणाममिति तथा / 5 / जिणभासियधम्मगुणे अव्वाबाहं च तप्फलं परमं / एवं उ भावणाओ जायइ पिचा वि बोहि ति॥ [जिनभाषितधर्मगुणान् अव्याबाधं च तत्फलं परमम् / एवं तु भावनातो जायते प्रेत्यापि बोधिरिति // 386 // ] जिनभाषितधर्मगुणानिति क्षान्त्यादिगुणान् भावयेदव्याबाधं च मोक्षसुखं च तत्फलं क्षान्त्यादिकार्य परमं प्रधान भावयेदेवमेव भावनातः चेतोभ्यासातिशयेन जायते प्रेत्यापि जन्मान्तरेऽपि बोधिधर्मप्राप्तिरिति /

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246