Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan

View full book text
Previous | Next

Page 234
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 229] [चरमावस्थायां तथा सर्वारम्भक्रियानिवृत्तेः / प्रवज्यामेव चासौ न प्रतिपद्यते केन कार्येण // 380 // ] चरमावस्थायां मरणावस्थायामित्यर्थः तथा तेन प्रकारेणाहारपरित्यागादिनापि सर्वारम्भक्रियानिवृत्तेः कारणात्प्रवज्यामेवासौ श्रावको न प्रतिपद्यते केन कार्येण केन हेतुना इत्यत्रोच्यते / चरणपरिणामविरहा नारंभादप्पवित्तिमित्तो सो। तज्जुत्तवसग्गसहाण जं न भणिओ तिरिक्खाणं॥ [चरणपरिणामविरहात् नारम्भाद्यप्रवृत्तिमात्रोऽसौ / तद्युक्तोपसर्गसहानां यन भणितस्तिरश्वामिति // 381 // ] चरणपरिणामविरहादित्युक्तमेव स एव तथानिवृत्तस्य किं न भवतीत्याशङ्कयाह नारम्भाद्यप्रवृत्तिमात्रोऽसौ चरणपरिणाम इति कुतस्तद्युक्तोपसर्गसहानां यन्न भणितस्तिरश्वामिति तथाह्यारंभाद्यप्रवृत्तियुक्तानामपि पिपीलिकाद्युपसर्गसहानां चण्डकोशिकादीनां न चारित्रपरिणामः अतोऽयमन्य एवात्यन्तप्रशस्तोऽचिन्त्यचिन्तामणिकल्प इति पुनरपि केषांचिन्मतमाशंक्यते / केई भणंति एसा संलेहणा मो दुवालसविहंमि / भणिया गिहत्थधम्मे न जओ तो संजए तीए॥

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246