Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan

View full book text
Previous | Next

Page 232
________________ सटीकीवकप्रज्ञप्त्याख्यप्रकरणं / [ 227 ] - वनापरिग्रह इति / एवं च विहरिऊणं दिक्खाभाव मि चरणमोहाओ। पत्तंमि चरमकाले करिज्ज कालं अहाकमसो 377 // [ एवं च विहृत्य दीक्षाभावे चरणमोहात् / प्राप्ते चरमकाले कुर्यात्कालं यथाक्रमशः // 377 // ] एवं यथोक्तविधिना विहृत्य नियतानियतेषु क्षेत्रेषु कालं नीत्वा दीक्षाभाव इति प्रव्रज्याभावे सति चरणमोहादिति चारित्रमोहनीयात्कर्मणः प्राप्ते चरमकाले क्षीणप्राये आयुषि सतीत्यर्थः कुर्यात्कालं यथाक्रमशो यथाक्रमेण परिकर्मादिनेति / भणिया अपच्छिमा मारणंतिया वीयरागदोसेहि। संलेहणाझोसणमो आराहणयं पवक्खामि॥३७८॥ [ भणिता अपश्चिमा मारणान्तिकी वीतरागदोषैः / संलेखनाजोषणा आराधना तां प्रवक्ष्यामि // 378 // ] .. भणिता चोक्ता च कैर्वीतरागद्वेषैरर्हद्भिरिति योगः का अपच्छिमा मारणान्तिकी संलेखना जोषणाराधनेति / पश्चिमैवानिष्टाशयपरिहारायापश्चिमा मरणं प्राणपरित्यागलक्षणं इह यद्यपि प्रतिक्षणमावीचीमरणमस्ति तथापि न तद्गृह्यते किं तर्हि सर्वायुष्कक्षयलक्षणमिति मरणमेवान्तो मरणान्तः तत्र भवा मारणान्तिकी बह्वच-इति टञ् , संलिख्यतेऽनया शरीरकषाया

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246