Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan

View full book text
Previous | Next

Page 224
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [219 ] भूतेषु प्राणिषु जंगमत्वं द्वीन्द्रियादित्वं तेष्वपि पश्चेन्द्रियत्वमुत्कृष्टं प्रधानं तेष्वपि पञ्चन्द्रियेषु मानुषत्वमुत्कृष्टमिति वर्तते मनुजत्वे आर्यों देश उत्कृष्ट इति / देसे कुलं पहाणं कुले पहाणे य जाइ उक्कोसा / तीइविरूवसमिद्धी रूवे य बलं पहाणयरं॥३५७॥ [देशे कुलं प्रधान कुले प्रधाने च जातिरुत्कृष्टा / तस्यामपि रूपसमृद्धिः रूपे च बलं प्रधानतरम् // 357 // ] देशे आर्ये कुलं प्रधानं उग्रादि, कुले प्रधाने च जातिरुत्कृष्टा मातृसमुत्था तस्यामपि जातौ रूपसमृद्धिरुत्कृष्टा सकलाङ्गनिष्पत्तिरित्यर्थः रूपे च सति बलं प्रधानतरं सामर्थ्य मिति / होइ बले वि य जीयं जीए वि पहाणयं तु विन्नाणं। विनाणे सम्मत्तं सम्मत्ते सीलसंपत्ती // 358 // ___भवति बलेऽपि च जीवितं प्रधानतरमिति योगः, जीवि तेऽपि च प्रधानतरं विज्ञानं विज्ञाने सम्यक्त्वं क्रिया पूर्ववत् सम्यक्त्वे शीलसंप्राप्तिः प्रधानतरेति। सीले खाइयभावो खाइयभावे य केवलं नाणं / केवलिए पडिपुन्ने पत्ते परमक्खरे मुक्खो॥३५९॥ शीले क्षायिकभावः प्रधानः क्षायिकभावे च केवलज्ञानं,

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246