Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan
View full book text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [ 223 ] धानं कुर्वन्ति संघविषयमुपयुक्ताः संघं प्रत्येतद्वन्दनं संघोऽयं वन्दत इति / पच्छा कयपणिहाणा विहरंता साहूमाइ दट्टण / जंपंति अमुगठाणे देवे व दाविया तुम्भे // 368 // [पश्चात् कृतप्रणिधाना विहरन्तः साध्वादीन्दृष्ट्वा / जल्पन्ति अमुकस्थाने देवान् वंदिता यूयम् // 36 // ] पश्चात्तदुत्तरकालं कृतप्रणिधानाः सन्तस्तदर्थस्य संपादितत्वाद्विहरन्तः सन्तः साध्वादीन् दृष्ट्वा साधु साध्वी श्रावकं श्राविकां वा जल्पन्ति व्यक्तं च भणन्ति किं अमुकस्थाने मथुरादौ देवान्वन्दिता यूयमिति / ते वि य कयंजलिउडा सद्धासंवेगपुलइयसरीरा। अवणामिउत्तमंगा तं बहु मन्नति सुहझाणा॥३६९॥ [तेऽपि च कृताञ्जलिपुटाः श्रद्धासंवेगपुलकितशरीराः। अवनामित्तोत्तमांगाः तद् बहु मन्यन्ते शुभध्यानाः 369] तेऽपि च साध्वादयः कृताञ्जलिपुटा रचितकरपुटाअलयः श्रद्धासंवेगपुलकितशरीराः श्रद्धाप्रधानसंवेगतो रोमाञ्चितवपुषो ऽवनामितोत्तमाङ्गाः सन्तस्तद्वन्दनं बहु मन्यन्ते शुभध्यानाः प्रशस्ताभ्यवसाया इत्युभयोः फलमाह /
Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246