Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan
View full book text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [221 ] [वैराग्यं कर्मक्षयः विशुद्धज्ञानं च चरणपरिणामः / . स्थिरता आयुः च बोधिः इत्थं चिन्तायां गुणा भवन्ति॥३६३॥] इत्थं चिन्तयतो वैराग्यं भवत्यनुभवसिद्धमेवैतत् तथा कर्मक्षयः तत्त्वचिन्तनेन प्रतिपक्षत्वात् विशुद्धज्ञानं च निवन्धनहानेः चरणपरिणामः प्रशस्ताध्यवसायत्वात् स्थिरता धर्मे प्रतिपक्षासारदर्शनात् आयुरिति कदाचित्परभवायुष्कबन्धस्ततस्तच्छुभत्वासर्व कल्याण बोधिरित्थं तत्वभावनाभ्यासादेवं चिन्तायां क्रियमाणायां गुणा भवन्त्येवं चिन्तया वेति / गोसम्मि पुवभणिओ नवकारेणं विबोहमाईओ। इत्थ विही गमणम्मि य समासओ संपवक्खामि।३६४॥ ___ गोसे (प्रत्युषसि ) पूर्वभणितो नमस्कारेण विबोधादिः। अत्र विधिः (इति) गमने च समासतः संप्रवक्ष्यामि // विधि, मिति। अहिगरणखामणं खलु चैइयसाहणं वंदणं चेव। संदेसम्मि विभासा जइगिहिगुणदोसविक्खाए।३६५। [अधिकरणक्षामणं खलु चैत्यसाधूनां वन्दनमेव च / संदेशे विभाषा यतिगृहिगुणदोषापेक्षया // 365 // ] अधिकरणक्षामणं खलु माभूत्तत्र मरणादौ वैरानुबन्ध इति, तथा चैत्यसाधूनामेव च वन्दनं नियमतः कुर्यात् गुणदर्शनात,
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1706d2396c50e19270e5050b2736d7f0930c2f4b5ffeff8b70c9ce83409aba8d.jpg)
Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246