Book Title: Shravak Pragnpti
Author(s): Rajendravijay
Publisher: Sanskar Sahitya Sadan
View full book text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं / [217 ] प्रत्याख्यातीति तीर्थकराणां चाज्ञा संपादिता भवतीत्येते गुणाः साधुसमीपे व्युत्सृजतः प्रत्याख्यानं कुर्वत इति सामाचारीशेषमाह / सुणिऊण तओ धम्मं अहाविहारं च पुच्छिउमिसीणं। काऊण य करणिज्जं भावम्मि तहा ससत्तीए॥३५२॥ [श्रुत्वा ततो धर्म यथाविहारं च पृष्ट्वा ऋषीणाम् / कृत्वा च करणीयं भावे तथा स्वशक्त्या // 352 // ] श्रुत्वा ततो धर्म क्षान्त्यादिलक्षणं साधुसकाशे इति गम्यते यथाविहारं च तथाविधचेष्टारूपं पृष्ट्वा ऋषीणां संबन्धिनं, कृत्वा च करणीयं ऋषीणामेव संबन्धि भाव इत्यस्तितायां करणीयस्य स्वशक्त्या स्वविभवाद्यौचित्येनेति / / तत्तो अणिंदियं खलु काऊण जहोचियं अणुटाणं। भुत्तण जहा विहिणा पञ्चकखाणं च काऊण॥३५३॥ [ततः अनिंद्यं खलु कृत्वा यथोचितमनुष्ठानम् / भुक्त्वा यथाविधिना प्रत्याख्यानं च कृत्वा // 353 // ] ततस्तदनन्तरमनिन्यं खलु इहलोकपरलोकानिन्द्यमेव कृत्वा यथोचितमनुष्ठानं यथा वाणिज्यादि तथा भुक्त्वा यथाविधिना अतिथिसंविभागसंपादनादिना प्रत्याख्यानं च कृत्वा तदनन्तरमेव पुनर्भोगेऽपि ग्रन्थिसहितादीनि /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/ddf7fb303cb0d510840144574962baef9a8b62b44537ed4ffb93c5523030efca.jpg)
Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246