Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 6
________________ प्रथमाकण्डिका । ऋग्वेदो यजुर्वेदः सामवेदोऽथववेदश्चेति ॥३॥ इति स्पष्टार्थ: । “वेदा हि यज्ञार्थमभिप्रवृत्ताः । तथा च विष्णुपुराणम् । पाद्यो वेदश्चतुष्पादः शतसाहनसंमितः । ततो दशगुणाः कृत्स्नो यज्ञोऽयं स कामधुक ॥१॥ अवैव मत्सुतो व्यास अष्टाविंशतिमेऽन्तरे॥ वेदमेकं चतुष्पादचतुर्धा व्यभजत्प्रभुः ॥ २ ॥ अस्यार्थः । पाद्यो वेदो वेदविभागात्पूर्वकानीतो वेदश्चतुष्पादः ऋगादिचतुष्टयसमूहरूप: । शतसाहससम्मितः । दश दश त्तच्छतं दशशतानि "तत्माहसं तत्समिति श्रुतेः । पनन्तसयाकः। "अनन्ता वै वेदा इति श्रुतेः। ततो वेदात्प्रवृत्तः कृत्स्नोऽयं दशगुण: । द. शविधः । “स एष यत्तः पञ्चविधोऽग्निहोत्रं दर्शपौर्णमासौ चातुर्मास्यानि पशः सोमइति श्रुतेः । तथा च "पन्च वा एते महायत्ता इत्युपक्राम्य ब्रह्मयत्नो देवयत्तः पितृयज्ञो भूतयतो मनुष्ययत्तइति श्रुतैश्च । वैतानिका गाश्च दशयत्ताः । अत्रान्तरे वैवखतमवन्तरे अष्टाविंशतिमे हापरयुगे इति शेष: । मत्सुतो व्यामः कृष्णपायनश्चतुर्धा व्यभजत् । ऋग्वेदादिरूपेण चतुर्धा विभक्तवान् । पाकयत्तासिविधाः । पवरह्यम् । “हुता अग्नौ इयमाना अनग्नौ प्रहुता ब्राह्मणभोजने ब्रह्मणि हुताइति । अव दृत्ति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56