Book Title: Shaunkoktam Charan Vyuh Parishishtam Sabhasham Prarabhyate
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 36
________________ द्वितीयाकण्डिका । । चरणान्मुनिसत्तम । १३ । याज्ञवल्क्योऽपि मैचेण प्राणायामपरायणः । तुष्टाव प्रणतः सूर्यं यजूंष्यभिलषत्ततः । १४ । अस्यार्थः । यजुर्वेदतरोरित्यादिना सप्तविंशतिः । इयं च प्राधानशाखानां सङ्ख्या | ब्रह्माण्डपुराणोक्तषडशीतिशाखाभेदस्तु प्रातिशाखविबक्षया ताश्च शुक्लयजुः पञ्चदशकं सहेत्येक शाखा चापस्तम्बोक्ता इति द्रष्टव्यम् । याज्ञवरुक्येन छहितेयैजुभिस्तैत्तिरीयशाखा बभूव । ते याज्ञवल्कयव्यतिरिक्ता वैशम्पायनशिष्या याज्ञवल्कयेन छर्हितं विप्ररूपेण गृहौतुमनुचितमिति तित्तिरपक्षिणो भूत्वा याज्ञवल्क्यविसृष्टानि यजूंषि जगृहः । ततस्ताः शाखास्तैत्तिरौया बभूवुरित्यर्थः । याज्ञवल्क्यव्यतिरिक्तानां श्वरकाध्वर्युज्ञां निर्वक्ति । चरका ध्वर्यवस्ते वै चरण म्मुनिसत्तम । वरकाध्वर्यवति पाठे वरणाद्यजुषां ग्रहणात् । श्राध्वर्यवं चक्रुरित्यर्थः । यजूंषि वैशम्पाय - नेनाधीतानि । याज्ञवल्क्यस्ततो ब्रह्मञ्छन्दांस्य धिगवे - । घयन् । गुरोरविद्यमानानि सूपतस्थेऽर्क मौश्वरम् । इति भागवनीतेः । याज्ञवल्क्य उवाच । नमः सवित्रे दाग़यमुक्तेरमिततेजसे । ऋग्यजुः सामरूपाय वयोधामात्मने नमः | १५ । इत्येवमादिभिस्तेन स्तूयमानः म वै रविः । वाजीरूपधरः प्राह व्रीयतामभिवाञ्छितम् । १६ । याज्ञवल्क्य तथा प्राह प्रणिपत्य दिवाकरम् । यजषि तानि मे दहि यानि सन्ति न मे गुरौ । १७ । परांशेर उवाच एवमुक्तो ददौ तस्मै यजूंषि भगवान् | Shree Sudharmaswami Gyanbhandar-Umara, Surat · www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56