Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४१ / १)
प्रत गाथांक
नि/भा/प्र
||३१२||
दीप
अनुक्रम [१०००]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं+निर्युक्तिः+वृत्तिः) मूलं [ १००० ] + प्रक्षेपं [२७...]"
●→
“निर्युक्तिः [६५९ ] + भाष्यं [३१२]
F
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
तिसु तिष्णि तारगा उ उमि पाभाइए अदिद्वेवि । वासासु अतारागा चउरो छ निविहोषि ॥ ११२ ॥ (भा०)
'त्रिषु' आद्येषु कालेषु घनसंछादितेऽपि ऋतुबद्धे काले यदि तारकास्तिस्रो दृश्यन्ते ततस्त्रयः काला आद्या गृह्यन्त इति, 'पाभाइए अदिट्ठेबित्ति प्राभातिके काले गृह्यमाणे ऋतुबद्धे घनाच्छादिते यदि तारकत्रितयमपि न दृश्यते तथाऽपि गृह्यते काल इति । वर्षाकाले पुनर्धनाच्छादितेऽपि अदृष्टतारा एव चत्वारोऽपि काला गृह्यन्ते । छन्ने न सावकाशे एते चत्वारोऽपि काला गृह्यन्ते । 'निविट्टोवि' त्ति प्राभातिके त्वयं विशेषः- उपविष्टोऽपि छन्ने स्थाने ऊर्द्धस्थानस्यासति गृह्यति । एतदेव व्याख्यानयन्नाह -
ठाणासति बिंदू हर विद्वोषि पच्छिमं कालं । पडियरह वाहि एको एको अंतडिओ गिन्छे ।। ६६१ ।। स्थानस्यासति, एतदुक्तं भवति ययूर्द्धस्थितो न शक्नोति ग्रहीतुं कालं ततः स्थानाभावे सति तोयविन्दुषु या पतत्सु सत्सु गृह्णात्युपविष्टः पश्चिमं प्राभातिकं कालं, तथा प्रतिजागरणं करोति द्वारि एको स्थितः ओलिकापातादेरधस्तात्स्थितः साधुः, एकश्च साधुरन्तः-मध्ये स्थितो गृह्णाति कालमिति । इदानीं कः कालः कस्यां दिशि प्रथमं गृह्यते १ एतत्प्रदर्शयन्नाह पाओसियअरसे उत्तरदिसि पुछ पेहए कालं । बेरनियंमि भयणा पुजदिसा पच्छिमे काले ।। ६६२ ।। प्रादोषिकः अर्द्धरात्रिकच कालः द्वावप्येतासरस्यां दिशि 'पूर्व' प्रथमं प्रत्युपेक्षते-गृह्णाति ततः पूर्वादिदिक्षु, वैरात्रिके -- तृतीयकाले भजना-विकल्पः कदाचित् उत्तरस्यां पूर्वं पूर्वस्यां वा पुनः पश्चिमे प्राभातिके काले पूर्वस्यां दिशि प्रथमं करोति कायोत्सर्ग ततः पुनर्दक्षिणादाविति ।
For Parts Only
~ 424~

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472