Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||७०३||
दीप
अनुक्रम [१०५६ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [१०५६ ] “निर्युक्तिः [७०३] + भाष्यं [ ३२१...] + प्रक्षेपं [ ३०... " ८० पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
→
श्रीओघ
'मान' प्रमाणं रजस्त्राणस्य 'भाजनप्रमाणेन' पात्रकमानेन भवति, एतदुक्तं भवति - पात्र कानुरूपं रजस्त्राणं भवति, तच्च निर्युक्तिः रजस्त्राणं पात्रकस्य कथं दीयते ? अत आह—प्रदक्षिणां कुर्वाणं सत्तिर्यग् दीयते, 'मध्ये' पृथुत्वेन चत्वार्यङ्गुलानि 'क्रामति' द्रोणीया २ गच्छति प्रदक्षिणां कुर्वाणमिति । इदानीमस्यैव प्रयोजनप्रतिपादनायाह
वृत्तिः
॥२१३॥
मूसयरजउकेरे वासे सिन्हा रए य रक्खट्ठा। होंति गुणा रयताणे पादे पादे य एकेकं ॥ ७०४ ॥ तच्च रजस्त्राणं दीयते मूषिकरजउत्केरसंरक्षणार्थ, वर्षोदकसंरक्षणार्थं, सिद्धा अवश्यायस्तत्संरक्षणार्थ, भवन्ति गुणा रजस्त्राणस्यैते तच्च पात्रे पात्रे चैकैकं भवतीति । इदानीं कल्पप्रमाणप्रमाणप्रतिपादनायाह
कप्पा आयपमाणा अड्डाइज्जा उ वित्थडा हत्था। दो चैव सोत्तिया उन्निओ य तइओ मुणेयचो ॥ ७०५ ॥ कल्पा आत्मप्रमाणाः, एतदुक्तं भवति - यावन्मात्राः प्रावृताः स्कन्धस्योपरि प्रक्षिप्तास्तिष्ठन्ति एतावदात्मप्रमाणमर्द्धटतीयांस्तु विस्तृता हस्तान्, तत्र द्वौ सूत्रिकौ भवतः ऊर्णिकश्च तृतीयो विज्ञेयः । इदानीं तत्प्रयोजनप्रतिपादनायाहगणानलसेवा निवारणा धम्मसुकझाणट्टा । दिट्ठं कप्परगहणं गिलाणमरणद्वया चेव ॥ ७०६ ॥ तृणग्रहणनिवारणार्थ गृह्यन्ते, अनलः - अग्निस्तत्सेवानिवारणार्थ च, एतदुक्तं भवति - कल्पाग्रहणे तृणग्रहणमग्निसेवनं च भवति, तन्निवारणार्थं कल्पग्रहणं क्रियते, तथा धर्मशुक्रुध्यानार्थं कल्प ग्रहणं भवति, एतदुक्तं भवति - शीतादिना बाध्यमानो धर्मशुक्ले ध्याने ध्यातुमसमर्थो भवति यदि कल्पान्न गृह्णाति, अत एवमर्थं दृष्टं कल्पग्रहणं, तथा ग्लानसंरक्षणार्थं मरणार्थ मृतस्योपरि दीयते कल्पः एतदर्थं च ग्रहणमिति । इदानीं रजोहरणस्वरूपप्रतिपादनायाह
Education Internation
For Para Use Only
~437~
पटलरजखाणकल्प
प्रमाणप्रयो जने नि. ७०१-७०६
॥२१३॥
wor

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472