Book Title: Savruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 431
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ||६८३|| दीप अनुक्रम [१०३५] [भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [१०३५] • → “निर्युक्तिः [ ६८३] + भाष्यं [ ३२०...] + प्रक्षेपं [ ३०...]" पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः ८० श्रीओपनिर्युक्ति: द्रोणीया वृत्तिः ॥२१०॥ यो भिक्षुश्चतुर्भिरङ्गलैन्यूनं भृतं सद् यत्पर्याप्त्या साधोर्भवति तदित्थंभूतं कालप्रमाणोदरप्रमाणसिद्धं पात्रकं मध्यमं भवति । 'एतदेव' पूर्वोक्तं प्रमाणं यदा 'सविशेषतरम्' अतिरिक्ततरं भवति तदा तदनुग्रहार्थं प्रवृत्तं भवति एतदुक्तं भवति बृहत्तरेण पात्रकेणान्येभ्यो दानेनानुग्रह आत्मनः क्रियते तच्च कान्तारे महतीमटवीमुत्तीर्यान्येभ्योऽप्यर्थं गृहीत्वा प्रजति येन बहूनां भवति, तथा दुर्भिक्षेऽलभ्यमानायां भिक्षायां बहटित्या बालादिभ्यो ददाति तच्चातिमात्रे भाजने सति भवति दानं, तथा रोधके कोट्टस्य जाते सति कश्चिद्भोजनं श्रद्धया दद्यात्तत्र तत् नीयते येन बहूनां भवति, एतेषु 'भजनीयं' सेवनीयं तदतिमात्रं पात्रकम् । इदानीमेतदेव भाष्यकारो व्याख्यानयन्नाह वैयावथगरो वा नंदीभाणं घरे उवग्गहियं । सो खलु तस्स विसेसो पमाणजुतं तु सेसाणं ॥ ३२१ ॥ ( भा० ) वैयावृत्त्यकरो वा नन्दीपात्रं धारयत्यौपग्रहिकमाचार्येण समर्पितं निजं वा स खलु तस्यैव वैयावृत्यकरस्य विशेषः, एतदुकं भवति यदतिरिक्तमात्रपात्रधारणमयं तस्यैवैकस्य वैयावृत्त्यकरस्य विशेषः क्रियते, शेषाणां तु साधूनां प्रमाणयुक्तमेव पात्रं भवति, उदरप्रमाणयुक्तमित्यर्थः । दिजाहि भाणपूरंति रिद्धिमं कोवि रोहमाईसु । तत्थवि तस्सुवओगो सेसं कालं तु पढिकुट्टो ॥ ६८४ ॥ एतच्च तेन प्रमाणातिरिक्तेन पात्रकेण प्रयोजनं भवति दद्याद्भाजनपूरकं कश्चिदृद्धिमान् पात्रभरणं कश्चिदीश्वरः कुर्यात्, कदा १, पत्तनरोधकादी, तत्र पात्रकभरणे तस्य नन्दीपात्रकस्योपयोगः शेषकालमुपयोगस्तस्य 'प्रतिकुष्टः' प्रतिषिद्धः कारणमन्तरेणेत्यर्थः । तच्च पात्रकं लक्षणोपेतं ग्राह्यं नालक्षणोपेतम् एतदेवाह -- Education Internation For Penal Use On ~431~ उपधिनिरूपणं नि. ६७९-६८४ भा. ३२१ ॥२१०॥

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472