Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
मीज्ञानबिन्दु
प्रकरणम् ॥
॥ ८७ ॥
|| इयता ज्ञानार्णवग्रन्थविभागेन मतिज्ञानप्ररूपणमप्यवशिष्टमिति मुतादीनां तत्वबुभुत्सापूरणाय पूज्यप्रणीतमेव तदीयविषयविन्दुरूपत्वान्नाम्ना श्री ज्ञान बिन्दुप्रकरणमन्यत्र पूर्व द्विधा मुद्रितमध्येत संलग्नता सत्यापनायेह प्रकाश्यते ॥ ॥ अथ श्रीज्ञानबिन्दु प्रकरणम् ॥
ऐन्द्रस्तोमनतं नत्वा, वीरं तत्त्वार्थदेशिनम् ॥ ज्ञानविन्दुः श्रुताम्भोधेः सम्यगुद्धियते मया ॥ १ ॥ तत्र ज्ञानं तावदात्मनः स्वपरावभासकोऽसाधारणो गुणः, स चाभ्रपटलविनिर्मुक्तस्य भास्वत इव निरस्तसमस्तावरणस्य जीवस्य स्वभावभूतः केवलज्ञानव्यपदेशं लभते । तदाहुराचार्या :- " केवलनाणमणतं, जीवसरूवं तयं निरावरणं ॥” इति । तं च स्वभावं यद्यपि सर्वंघातिकेवलज्ञानावरणं कारस्र्त्स्न्येनैवावरीतुं व्याप्रियते, तथापि तस्यानन्ततमो भागो नित्याऽनावृत एवावतिष्ठते, तथास्वाभाव्यात् || (नन्दी सूत्र ) 'सब्वजीवाणं पि य णं अवखरस्स अनंततमो भागो णिच्चुग्घाडिओ चिट्ठह, सोविअ जइ आवरिज्जा, तेणं जीवो अजीवत्तणं पाविजा " इति पारमर्षप्रामाण्यात् । अयं च स्वभावः केवलज्ञानावरणावृतस्य जीवस्य घनपटलच्छन्नस्य खेखि मन्दप्रकाश इत्युच्यते । तत्र हेतुः केवलज्ञानावरणमेव । केवलज्ञानव्यावृत्तज्ञानत्वव्याप्यजातिविशेपावच्छिन्ने तद्धेतुत्वस्य शास्त्रार्थत्वात् । अत एव न मतिज्ञानावरणक्षयादिनापि मतिज्ञानाद्युत्पादनप्रसङ्गः । अत एव चास्य विभावगुणत्वमिति प्रसिद्धिः । स्पष्टप्रकाश प्रतिबन्ध के मन्दप्रकाशजनकत्वमनुत्कटे चक्षुराद्यावरणे वस्त्रादावेव दृष्टं न तूत्कटे यादाविति कथमत्रैवमिति चेत्, न, अभ्राद्यावरणे उत्कटे उभयस्य दर्शनात्, अत एवात्र (नन्दी ) "सुट्ठ वि मेघसमुदए, होंति पभा चंदराणं ||" इत्येव दृष्टान्तितं पारमर्षे, अत्यावृतेऽपि चन्द्रसूर्यादौ दिनरजनीविभागहेत्वल्पप्रकाशवञ्जीवेऽप्यन्यव्यावर्तकचै
| मङ्गलं ज्ञान
निरूपणे के
वलज्ञानस्व
रूपोपदर्श..
नं, जीवस्व-भावस्य ज्ञानस्यानन्ततमभागो नि
त्यानावृत ए
|वेत्यस्य व्य.
वस्थापनम् ।
॥ ८७ ॥

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252