Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 202
________________ मोबान অঞ্জনাথী (लू वग्रहभेदे प्रकरणम्॥ ॥९३ ॥ नावग्रहदैविध्यं व्य ORGARH जनस्वरू हभेदात्। तत्र व्यञ्जनेन शब्दादिपरिणतद्रव्यनिकुरम्बेण व्यञ्जनस्य श्रोत्रेन्द्रियादेरवग्रहः सम्बन्धो व्यञ्जनावग्रह,सच मल्लकप्रतिबोधकदृष्टान्ताभ्यां सूत्रोक्ताभ्यामसङ्ख्येयसमयभावी । तस्यामप्यवस्थायामव्यक्ता ज्ञानमात्रा, प्रथमसमयेऽशेनाभवतश्चरमसमये भवनान्यथानुपपत्त्या भाष्यकृता प्रतिपादिता । युक्तं चैतत् , निश्चयतोऽविकलकारणस्यैव कार्योत्पत्तिच्याप्यत्वाद्, अविकलं च कारणं ज्ञाने उपयोगेन्द्रियमेव, तच्च व्यञ्जनावग्रहकाले लब्धसत्ताकं कथं न स्वकार्य ज्ञानं जनयेदिति, अयमुपयोगस्य कारणांशः । ननु व्यञ्जनावग्रहः प्राप्यकारिणामेवेन्द्रियाणामुक्तो नाप्राप्यकारिणोश्चक्षुर्मनसोरिति तत्र कः कारणांशो वाच्यः १, यद्यर्थावग्रहस्तहि सर्वत्र स एवास्त्विति चेत्, न, तत्राप्यर्थावग्रहात्याग् लब्धीन्द्रियस्य ग्रहणोन्मुखपरिणाम एवोपयोगस्य कारणांश इत्यभ्युपगमात् । न च सर्वत्रैकस्यैवाश्रयणमिति युक्तम्, इन्द्रियाणां प्राप्यकारित्वाप्राप्यकारित्वव्यवस्थाप्रयुक्तस्य इस्वदीर्घकारणांशभेदस्यागमयुक्त्युपपन्नत्वेन प्रतिबन्दिपर्यनुयोगानवकाशात् । अर्थावग्रहः सामान्यमात्रग्रहः, यतः किश्चिदृष्टं मया न तु परिभावितमिति व्यवहारः, स चैकसामयिका, तत ईहोपयोग आन्तौहार्तकः प्रवर्तते, स च सद्भुताऽसद्धृतविशेषोपादानत्यागाभिमुखबहुविचारणात्मकः पर्यन्ते तत्तत्प्रकारेण धर्मिणि साध्यत्वाख्यविषयताफलवान् भवति । अत एव "फलप्रवृत्ती ज्ञानप्रामाण्यसंशयवत्करणप्रवृत्तावपीन्द्रियादिगतगुणदोषसंशयेन विषयसंशयादिन्द्रियसाद्गुण्यविचारणमपीहयैव जन्यते, केवलमभ्यासदशायां तज्झटितिजायमानत्वात् कालसौक्ष्म्येण नोपलक्ष्यते, अनभ्यासदशायांतु वैपरीत्येन स्फुटमुपलक्ष्यत" इति मलयगिरिप्रभृतयो वदन्ति । एवं सति स्वजन्यापाये सर्वत्रार्थयाथात्म्यनिश्चयस्येहयैव जन्यमानत्वात् "तदुभयमुत्पत्तौ परत एव, ज्ञप्तौ तु स्वतः परतश्च" इत्याकर (प.१-२०) सूत्रं विरुध्येत,तदुभयं प्रामाण्यमप्रामाण्यं च,परत एवेति कारणगतगुणदोषापेक्षयेत्यर्थः,स्वतः पद्वैवि ध्यव्यञ्जनावग्र| हनिरूपणचततोऽर्थावग्रहादीनां निरूपणम्। - - - ॥९३॥ -

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252