Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 230
________________ श्रीज्ञानबिन्दु प्रकरणस् । ॥ १०७ ॥ नित्यनुमितावपि उभयसमाजादंशे प्रत्यक्षानुमित्यात्मकतापत्तेश्च । अथ मनस इव शब्दस्य परोक्षापरोक्षज्ञानजनन स्वभावाङ्गीकाराददोषः, मनस्त्वेन परोक्षज्ञानजनकता, इन्द्रियत्वेन चापरोक्षज्ञानजनकतेत्यस्ति मनस्यवच्छेदकभेद इति चेत्, शब्दस्यापि विषयाजन्यज्ञानजनकत्वेन वा ज्ञानजनकत्वेन वा परोक्षज्ञानजनकता योग्यपदार्थनिरूपितत्वम्पदार्थाभेदपरशब्दत्वेन चापरोक्षज्ञानजनकतेति कथं नावच्छेदकभेदः । धार्मिकस्त्वमसीत्यादौ व्यभिचारवारणाय निरूपितान्तं विशेषणं, इतरव्यावर्त्य तु स्पष्टमेव । एतच्च ' दशमस्त्वमसि ' 'राजा त्वमसि' इत्यादिवाक्याद्दशमोऽहमस्मि राजाहमस्मीत्यादिसाक्षात्कार दर्शनात्कल्प्यते, नाहं दशम इत्यादिभ्रमनिवृत्तरत इत्थमेव सम्भवात् । साक्षात्कारिभ्रमे साक्षात्कारिविरोधिज्ञानत्वेनैव विरोधित्वकल्पनात् । न च तत्र वाक्यात्पदार्थमात्रोपस्थितौ मानसः संसर्गबोध इति वाच्यम्, सर्वत्र वाक्ये तथा वक्तुं शक्यत्वेन शब्दप्रमाणमात्रोच्छेदप्रसङ्गादिति चेत्, मैवम्, दशमस्त्वमसीत्यादौ वाक्यात्परोक्षज्ञानानन्तरं मानसज्ञानान्तरस्यैव भ्रमनिवर्तकत्वकल्पनात्, धार्मिकस्त्वमसीत्यादौ विशेष्यांशस्य योग्यत्वादेव योग्यपदार्थनिरूपितेत्यत्र योग्यपदार्थतावच्छेदकविशिष्टेत्यस्यावश्यवाच्यत्वेन महावाक्यादपि तत्पदार्थतावच्छेदकस्यायोग्यत्वेना परोक्षज्ञानासम्भवाच्च, अयोग्यांशत्यागयोग्यांशोपादानाभिमुख लक्षणावस्त्वमेव योग्यपदार्थत्वमित्युक्तौ च धार्मिकस्त्वमसीत्यादावपि शुद्धापरोक्षविषयत्वे तद्वयावर्तकविशेषणदानानुपपत्तिः, तथा च योग्यलक्ष्य परत्वग्रहे उदाहरणस्थान दौर्लभ्यं । अयं च विषयोऽस्माकं पर्यायविनिर्मोकेण शुद्धद्रव्यविषयतापर्यवसायकस्य द्रव्यनयस्येत्यलं ब्रह्मवादेन ॥ किञ्च त्वम्पदार्थाभेदपरशब्दत्वेनापरोक्षज्ञानजनकत्वोक्तौ 'यूयं राजान' इत्यतोऽखिलसम्बोध्यविशेष्यकराजत्वप्रकारकापरोक्षशाब्दापत्तिः, तत्र तादृशमानसाभ्युपगमे चान्यत्र को पराधः । एतेन " एकवचनान्तत्वम्पदार्थग्रहणेऽपि न निस्तारः, "एकस्मिन्नेव ॥ केवलज्ञाननिरूपणे वेदान्तिम तखण्डने पु नह्मापरो क्षज्ञानजन कत्वस्य श न्दे व्यवस्था पनपक्षे वेदा न्त्याशङ्को |न्मूलिता || 11 200911

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252