Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
श्रीज्ञानबिन्दुप्रकरणम् ।। ॥ ११७ ॥
A১৮
भिणिबोहे, दंसणसद्दो हवाइ जुत्तो ॥२- ३२||” जिनप्रज्ञप्तभावविषयं समूहालम्बनं रुचिरूपं ज्ञानं मुख्यं सम्यग्दर्शनं तद्वासनो पनीतार्थविषयं घटादिज्ञानमपि भाक्तं तदिति तात्पर्यार्थः ॥ ननु सम्यग्ज्ञाने सम्यग्दर्शननियमवद्दर्शनेऽपि सम्यग्ज्ञाननियमः कथं न स्यादित्यत्राह - "सम्मन्नाणे नियमे ण दंसणं दंसणे उ भयणिज्जं ॥ सम्मन्नाणं च इमं, ति अत्थओ होइ उववण्णं ।। २-३३ ।। " सम्यग्ज्ञाने नियमेन सम्यग्दर्शनं, दर्शने पुनर्भजनीयं विकल्पनीयं सम्यग्ज्ञानं एकान्तरुचौ न सम्भवति, अनेकान्तरुचौ तु समस्तीति । अतः सम्यग्ज्ञानं चेदं सम्यग्दर्शनं चेत्यर्थः, अर्थतः सामर्थ्येने (र्थ्यादे)कमेवोपपनं भवति ।
तथा च सम्यक्त्वमिव दर्शनं ज्ञानविशेषरूपमेवेति निर्व्यूढम् । ( अथ ग्रन्थकृत्प्रशस्तिः ) प्राचां वाचां विमुखविषयो-न्मेषसूक्ष्मेक्षिकायां, येऽरण्यानी- भयमधिगता नव्यमार्गानभिज्ञाः ॥ तेषामेषा समयवणिजां सम्मतिग्रन्थगाथा, विश्वासाय स्वनयविपणिप्राज्यवाणिज्यवीथी । १ ॥ भेदग्राही (हि) व्यवहृतिनयं संश्रितो मल्लवादी, पूज्याः प्रायः करणफलयोः सीम्नि शुद्धसूत्रम् ॥ भेदोच्छेदोन्मुखमधिगतः सग्रहं सिद्धसेन - स्तस्मादेते न खलु विषमाः सूरिपक्षास्त्रयोsपि (मी) ॥२॥ चित्सामान्यं पुरुषपदभाक्केवलाख्ये विशेषे, तद्रूपेण स्फुटमभिहितं साद्यनन्तं यदेव ||
सूक्ष्मैरंशैः क्रमवदिदमप्युच्यमानं न दुष्टं तत्सूरीणामियममिमता मुख्यगौणव्यवस्था ॥ ३ ॥ तमोऽपगम चिज्जनुःक्षणभिदानिदानोद्भवाः, श्रुता बहुतराः श्रुते नयविवादपक्षा यथा ॥
तथा क इव विस्मयो भवतु सूरिपक्षत्रये, प्रधानपदवी धियां क नु दवीयसी दृश्यते ॥ ४ ॥
केवलज्ञान
निरूपणे
केवलज्ञान
दर्शनयोर मि.
न्नत्वप्ररूपकसम्मति
गाथाकदम्बोपसंहारः प्रशस्तौ च
स्याद्वादमते
| नयभेदेन पक्षत्रयनिर्दो
षताप्ररूपण.
मकान्त
माहात्म्य
प्रदर्शनञ्च ॥ ॥ ११७ ॥

Page Navigation
1 ... 248 249 250 251 252