Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
REC
धीज्ञान
प्रकरणम्॥
CREATERPREKX
पश्यति चोभयप्राधान्येन, तस्मात्तत्केवलज्ञानं दर्शनं चाविशेषत उभयाभिधानानिमित्तस्याविशेषात्सिद्धं । मनःपर्यायज्ञानस्य तु व्यन्जनावग्रहाविषयार्थकप्रत्यक्षत्वेऽपि वाह्यविषये व्यभिचारेण स्वग्राह्यतावच्छेदकावच्छेदेन प्रत्यक्षत्वाभावाम दर्शनत्वमिति निष्कर्षः । अत्र यहीकाकृता "प्रमाणप्रमेययोः सामान्यविशेषात्मकत्वेऽप्यपनीतावरणे युगपदुभपस्वभावो बोधः, छद्मस्थावस्थायां त्वनपगतावरणत्वेन दर्शनोपयोगसमये ज्ञानोपयोगाभावादप्राप्यकारिनयनमनःप्रमवार्थावग्रहादिमतिज्ञानोपयोगप्राक्काले चक्षुरचक्षुर्दर्शने, अवधिज्ञानोपयोगप्राकाले चावधिदर्शनमाविर्भवति" इति व्याख्यातं तदर्धजरतीयन्यायमनुहरति, प्राचीनप्रणयमात्रानुरोधे श्रोत्रादिज्ञानात् प्रागपि दर्शनाभ्युपगमस्यावर्जनीयत्वात् , व्यञ्जनावग्रहार्थावग्रहान्तराले दर्शनानुपलम्भा तदनिर्देशाच्च, असङ्ख्येयसामयिकव्यञ्जनावग्रहान्त्यक्षणे "ताहे हुंति करेइ" इत्यागमेनार्थावग्रहोत्पत्तेरेव भणनात्, व्यञ्जना वग्रहप्राकाले दर्शनपरिकल्पनस्य चात्यन्तानुचितत्वात् ॥ तथा सति तस्येन्द्रियार्थसन्निकर्षादपि निकृष्टत्वेनानुपयोगप्रसङ्गाच्च, प्राप्यकारीन्द्रियजझानस्थले दर्शनानुपगमे चान्यत्रापि भिन्नतत्कल्पनेन किश्चित्प्रमाणं, 'नाणमपुट्टे' इत्यादिना ज्ञानादभेदेनैव दर्शनस्वभावप्रतिपादनात, "चक्षुर्वद्विषयाख्यातिः(द्वा-१०-३०)इत्यादिस्तुतिग्रन्थैकवाक्यतयापि तथैव स्वारस्याच्च । छद्मस्थज्ञानोपयोगे दर्शनोपयोगत्वेन हेतुत्वे तु चक्षुष्येव दर्शनं नान्यत्रेति कथं श्रद्धेयं ? तस्माच्छीसिद्धसेनोपज्ञनव्धमते न कुत्रापि ज्ञानादर्शनस्य कालभेदः, किं तु स्वग्राह्यतावच्छेदकावच्छेदेन व्यञ्जनावग्रहाविषयीकृतार्थप्रत्यक्षत्वमेव दर्शनत्वमिति फलितम् । यदि च चाक्षुपादावपि ज्ञानसामग्रीसामर्थ्यग्राह्यवर्तमानकालायंशे मितिमात्रायंशे च न दर्शनत्वव्यवहारस्तदा विषयताविशेष एव दर्शनत्वं, स च क्वचिदंशे योग्यताविशेषजन्यतावच्छेदकः, क्वचिच्च भावनाविशेषजन्यतावच्छेदकः, केवले च सर्वाशे आवरण
केवलज्ञान
निरूपणे केवलज्ञानदर्शनोपयोग| प्रसङ्गे मतिज्ञानादिदृष्टान्तेन तत्त्वप्ररूपणं नव्य| तार्किकमतनिष्कर्षश्च ॥
RECARD
॥ ११६॥

Page Navigation
1 ... 246 247 248 249 250 251 252