Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 246
________________ भीमान बिन्दु प्रकरणम्॥ ॥११५॥ CARROTECCURRECTEDORE श्रोत्रज्ञानं घ्राणज्ञानमित्यादिव्यपदेश एव हि तत्रोपलभ्यते, न तु श्रोत्रदर्शनं घ्राणदर्शनमित्यादिव्यपदेशः क्वचिदागमे प्रसिद्धः, तर्हि चक्षुष्यपि तथैव गृह्यतां चक्षुर्ज्ञानमिति. नतु चक्षुर्दर्शनमिति । अथ तत्र दर्शनम्, इतरत्रापि तथैव गृह्यतां, युक्तेस्तुल्यत्वात् । | कथं तर्हि शास्त्रे चक्षुर्दर्शनादिप्रवाद इत्यत आह-"नाणमपुढे जो अविसए अ अथमि दंसणं होई ।। मुत्तूण लिंगओ जं, अणागयाईयविसएसु ॥२-२५॥" अस्पृष्टेऽर्थे चक्षुपा य उदेति प्रत्ययः स ज्ञानमेव सच्चक्षुदर्शनमिन्युच्यते, इन्द्रियाणामविषये च परमाण्वादावथै मनसा य उदेति प्रत्ययः स ज्ञानमेव सदचक्षुर्दर्शनमित्युच्यते । अनुमित्यादिरूपे मनोजन्यज्ञानेऽतिप्रसङ्गमाशङ्कयाऽऽह, अनागतातीतविषयेषु यल्लिङ्गन्तो ज्ञानमुदेति 'अयं काल आसन्नभविष्यवृष्टिकस्तथाविधमेघोन्नतिमत्त्वात,' 'अयं प्रदेश आसन्नवृष्टमेघः पूरविशेषवत्त्वाद्' इत्यादिरूपं तन्मुक्त्वा । इदमुपलक्षणं, भावनाजन्यज्ञानातिरिक्तपरोक्षज्ञानमात्रस्य तस्यास्पृष्टाविषयार्थस्यापि दर्शनत्वेनाव्यवहारात् । यद्यस्पृष्टाविषयार्थज्ञानं दर्शनमभिमतं, तर्हि मनःपर्यायज्ञानेऽतिप्रसङ्ग इत्याशङ्कथ समाधत्ते-"मणपञ्जवनाणं दं-सणं ति तेणेह होइ ण य जुत्तं ।। भन्नइ नाणं णोई-दियंमि ण घडादओ जम्हा ॥२-२६॥" एतेन लक्षणेन मनःपर्यायज्ञानमपि दर्शनं प्राप्तं, परकीयमनोगतानां घटादीनामालम्ब्यानां तत्रासत्त्वेनास्पष्टेऽविषये च घटादावर्थे तस्य भाना(वा)त, न चैतद्युक्तं, आगमे तस्य दर्शनत्वेनापाठात् । भण्यतेत्रोत्तरम-नोइन्द्रिये मनोवर्गणाख्ये मनोविशेषे प्रवर्तमानं मनःपर्यायबोधरूपं ज्ञानमेव, न दर्शन, यस्मादस्पृष्टा घटादयो नास्य विपय इति शेषः, नित्यं तेषां लिङ्गानुमेयत्वात् । तथा चागमः (विशेषावश्यक गाथा ८१४)-"जाणइ बज्झे णुमाणाओ ति" मनोवर्गणास्त परात्मगता अपि स्वाश्रयात्मस्पृष्टजातीया एवेति न तदंशेऽपि दर्शनत्वप्रसङ्गः। परकीयमनोगतार्थाकारविकल्प एवास्य ग्राह्या, तस्य चोभ केवलज्ञाननिरूपणे केवलज्ञानदर्शनोपयोगप्रसङ्गे मतिज्ञानदर्शनदृष्टान्तेन तत्त्वनिरूपणम् ॥ ACCIDEN ५। ११५॥

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252