Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
ि
**
च तन्नाशकारणाभावादविकलकारणात्तादृशोपयोगान्तरधाराया अविच्छेदाच " सव्वस्स वि केवलिणं) जुगवं दो णत्थि उवओगा" (आव०नि० गाथा ९७९) इति वचनानुपपत्तिः । न च ज्ञानस्य दर्शनमेवार्थान्तरपरिणामलक्षणो ध्वंस इत्युपयोगाऽयौगपद्यं साम्प्रतम्, साद्यनन्तपर्याय विशेषरूपध्वं तस्यैवावस्थितिविरोधित्वादर्थान्तरपरिणाम लक्षण ध्वंसस्यातथात्वात् । अन्यथा तत्तत्संयोगविभागादिमात्रेणानुभूयमानघटावस्थित्युच्छेदापत्तेः । न च “ जुगवं दो णत्थि उवओगा ” इत्यस्योपयोगयोर्युगपदुत्पत्तिनिषेध एव तात्पर्य, न तु युगपदेवस्थानेऽपीत्युपयोगद्वयधाराणां नाशकारणाभावेन सहावस्थानेऽपि न दोष इति साम्प्रतं, अक्रमवादिनाप्येवं क्रमावच्छिन्नोपयोगद्वययौगपद्यनिषेधपरत्वस्य वक्तुं शक्यत्वात्, सूत्रासङ्कोचस्वारस्यादरे “यदेव ज्ञानं तदेव दर्शनम्" इत्यस्मदुक्तस्यैव युक्तत्वादिति दिक् ॥
मतिज्ञानमेवावग्रहात्मना दर्शनं, अपायात्मना च ज्ञानमिति यदुक्तं दृष्टान्तावष्टम्भार्थमेकदेशिना तदूषयन्नाह - " जइ उग्गहमित्तं दं-सणंति मण्णसि विसेसिया नाणं || मइनाणमेव दंसण- मेवं सइ होइ णिष्फन्नं ।। २-२३॥ " यदि मतिरेवावग्रहरूपा दर्शनं विशेषिता ज्ञानमिति मन्यसे, तदा मतिज्ञानमेव दर्शनमित्येवं सति प्राप्तं । न चैतद्युक्तं, “स द्विविधोऽष्टचतुर्भेद" इति ( तस्वार्थ अध्याय २ सूत्र ९ ) सूत्रविरोधान्मतिज्ञानस्याष्टाविंशतिभेदोक्तिविरोधाच्च - " एवं सेसिंदियदं- समि नियमेण होइ ण य जुत्तं ॥ अह तत्थ नाणमित्तं घेप्पड़ चक्खुमि वि तदेव ॥ २-२४ ।। " एवं शेषेन्द्रियदर्शनेष्वप्यवग्रह एव दर्शनमित्यभ्युपगमेन ( गमे नियमेन ) मतिज्ञानमेव तदिति स्यात्, तच्च न युक्तं, पूर्वोक्तदोषानतिवृत्तेः । अथ तेषु श्रोत्रादिष्विन्द्रियेषु दर्शनमपि भवज्ज्ञानमेव गृह्यते, मात्रशब्दस्य दर्शनव्यवच्छेदकत्वात्, तद्वचवच्छेदश्च तथाव्यवहाराभावात्,
केवलज्ञाननिरूपणे
केवलज्ञानदर्शनोपयोगयौगपद्यवा
दिमतेन क्रम
वाद्यक्तदोष-
परिहारः व स्तुतोऽभेद
पक्षसमर्थन
तत्र चैकदेशि मतनिरस नश्च ॥

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252