Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 235
________________ वरण-खयजायं केवलं जहा नाणं। तह दंसणं पि जुज्जइ,णियआवरणक्खयस्संते ॥२-५॥" स्पष्टा,नवरं निजावरणक्षयस्यान्त इति दर्शनावरणक्षयस्यानन्तरक्षण इत्यर्थः । न चैकदोभयावरणक्षयेऽपि स्वभावहेतुक एवोपयोगक्रम इत्युक्तमपि साम्प्रतं, एवं सति स्वभावेनैव सर्वत्र निर्वाह कारणान्तरोच्छेदप्रसङ्गात् , कार्योत्पत्तिस्वभावस्य कारणेनैव तत्क्रमस्वभावस्य तत्क्रमणैव निर्वायत्वाच्च । एतेन "सर्वव्यक्तिविषयकत्वसर्वजातिविषयकत्वयोः पृथगवावरणक्षयकार्यतावच्छेदकत्वादर्थतस्तदवच्छिन्नोपयोगद्वयसिद्धिः" इत्यायपास्तम् । तत्सिद्धावपि तत्क्रमासिद्धेरावरणद्वयक्षयकार्ययोः समप्राधान्येनार्थगतेरप्रसराच्च । न च मतिश्रतज्ञानावरणयोरेकदा क्षयोपशमेऽपि यथा तदुपयोगक्रमस्तथा ज्ञानदर्शनावरणयोर्युगपत्क्षयेऽपि केबलिनामुपयोगक्रमः स्यादिति शङ्कनीयं, तत्र श्रुतोपयोगे मतिज्ञानस्य हेतुत्वेन शाब्दादौ प्रत्यक्षादिसामग्याः प्रतिबन्धकत्वेन च तत्सम्भवात् । अत्र तु क्षीणावरणत्वेन परस्परकार्यकारणभावप्रतिबध्यप्रतिबन्धकभावाद्यभावेन विशेषात् । एतदेवाह-"भण्णइ खीणावरणे, जह मइनाणं जिण ण संभवद ॥ तह खीणावरणिज्जे, विसेसओ देसणं णत्थि ॥२-६॥" भण्यते निश्चित्योच्यते, क्षीणावरणे जिने यथा मतिज्ञानं मत्यादिज्ञानं अवग्रहादिचतुष्टयरूपं वाज्ञानं न सम्भवति, तथा क्षीणावरणीये विश्लेषतो ज्ञानोपयोगकालान्यकाले दर्शनं नास्ति क्रमोपयोगत्वस्य मत्याद्यात्मकत्वव्याप्यत्वात्सामान्याविशेषोभयालम्बनक्रमोपयोगत्वस्य चावग्रहाद्यात्मकस्वव्याप्यत्वात्केवलयोः क्रमोपयोगत्वे तत्त्वापत्तिरित्यापादनपरोऽयं ग्रन्थः । प्रमाणं तु-"केवलदर्शनं केवलज्ञानतुल्यकालोत्पत्तिक, तदेककालीनसामग्रीकत्वात् , ताशकार्यान्तरवत्", इत्युक्ततर्कानुगृहीतमनुमानमेवेति द्रष्टव्यम् । न केवलं क्रमवादिनोऽनुमानविरोधः, अपि त्वागमविरोधोऽपीत्याह-"सुचमि चेव साइ-अपज्जवसियं ति केवलं वुत्तं । सुत्तासायणभीरू-हितं च ददुव्वयं केवलज्ञाननिरूपणे केवलज्ञानदर्शनयोरुपयोगयोगपद्यसमर्थनं क्रमवादिनोनुमानाम मादिविरोध द प्रदर्शनज॥ **PA

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252