Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
बवान
"९९॥
SARKARI
केवलज्ञाननिरूपणे केवलज्ञानस्थ भावनाजन्यत्वे
दोषोपदशकः प्रश्न:
प्रकर्षजन्ये शास्त्रातिक्रान्तविषयेऽतीन्द्रियविषयसामर्थ्ययोगप्रवृत्तिसाधनेऽध्यात्मशास्त्रप्रसिद्धप्रातिभनामधेये च तरतमभावदर्शनात् । नन्वेवं भावनाजन्यमेव प्रातिभवत्केवलं प्राप्तं, तथा चाप्रमाणं स्यात् , कामातुरस्य सर्वदा कामिनीं भावयतो व्यवहितकामिनीसाक्षात्कारवद्भावनाजन्यज्ञानस्याप्रमाणत्वव्यवस्थितेः, अथ न भावनाजन्यत्वं तत्राप्रामाण्यप्रयोजकं, किंतु बाधितविषयत्वं, भावनानपेक्षेपि शुक्तिरजतादिभ्रमे बाधादेवाप्रामाण्यस्वीकारात् , प्रकृते च न विषयबाध इति नाप्रामाण्यं, न च व्यवहितकामिनीविभ्रमादौ दोषत्वेन भावनाया: क्लृप्तत्वातजन्यत्वेनास्याप्रामाण्यं, बाधितविषयत्ववदोषजन्यत्वस्यापि भ्रमत्वप्रयोजकत्वात, तथा चोक्तं मीमांसाभाष्यकारेण-'यस्य(त्र) च दुष्टं कारणं यत्रच मिथ्येत्यादिप्रत्ययः स एवाऽसमीचीनो नान्य इति । वार्तिककारेणाप्युक्तम-"तस्माद्बोधात्मकत्वेन,प्राप्ता बुद्धेः प्रमाणता।। अर्थान्यथात्वहेतूत्थ-दोषज्ञानादपोद्यते॥१॥इति"अत्र हि तुल्यवदेवाप्रामाण्यप्रयोजकद्वयमुक्तं, तस्माद्वाधाभावेऽपि दोषजन्यत्वादप्रामाण्यमिति वाच्यं, भावनायाः क्वचिद्दोषत्वेऽपि सर्वत्र दोषत्वानि | श्चयात् , अन्यथा शङ्खपीतत्वभ्रमकारणीभूतस्य पीतद्रव्यस्य स्वविषयकज्ञानेऽप्यप्रामाण्यप्रयोजकत्वं स्यादिति न किश्चिदेतत् , क्यचिदेव कश्चिदोष इत्येवागीकारात् , विषयबाधेनैव दोषजन्यत्वकल्पनाच्च, दुष्टकारणजन्यस्याप्यनुमानादेविषयाबाधेन प्रामाण्याभ्युपगमात्, अन्यथा परिभाषामात्रापत्तेः। मीमांसाभाष्यवार्तिककाराभ्यामपि बाधितविषयत्वव्याप्यत्वेनैव दुष्टकारणजन्यत्वस्याप्रामाण्यप्रयोजकत्वमुक्तं न स्वातन्त्र्येणेति चेत्,मैवम्, तथापि परोक्षज्ञानजन्यभावनाया अपरोक्षज्ञानजनकत्वासम्भवात् । न हि वहथनुमितिज्ञानं सहस्रकृत्व आवृत्तमपि वह्निसाक्षात्काराय कल्पते। न चाभ्यस्यमानं ज्ञानं परमप्रकर्षप्राप्तं तथा भविष्यतीत्यपि शङ्कनीयं, लङ्घनादकतापादिवदभ्यस्यमानस्यापि परमप्रकर्षायोगात् । न च लङ्घनस्यैकस्यावस्थितस्याभावादपरापरप्रयत्नस्य पूर्वपूर्वातिशयि
॥९९॥

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252