Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 212
________________ श्रीज्ञान बिन्दु- प्रकरणम् ॥ ॥९८॥ अ KARLECTRIC "मनोमात्रसाक्षात्कारि मनःपर्यायज्ञानम्।" न च तादृशावधिज्ञानेऽतिव्याप्तिः,मनःसाक्षात्कारिणोऽवधेःस्कन्धान्तरस्यापि साक्षात्कारित्वेन तादृशावधिज्ञानासिद्धः। न च मनस्त्वपरिणतस्कन्धालोचितं बाह्यमप्यर्थ मनःपर्यायज्ञानं साक्षात्करोतीति तस्य मनोमात्रसाक्षात्कारित्वमसिद्धमिति वाच्यम्, मनोद्रव्यमात्रालम्बनतयैव तस्य धर्मिग्राहकमानसिद्धत्वात् , बाह्यार्थानां तु मनोद्रव्याणामेव तथारूपपरिणामान्यथानुपपत्तिप्रसूतानुमानत एव ग्रहणाभ्युपगमात्। आह च भाष्यकार:-" जाणइ बज्झेणुमाणेणं ति"(गा.८१४)वाह्यार्थानुमाननिमित्तकमेव हि तत्र मानसमचक्षुर्दर्शनमङ्गीक्रियते,यत्पुरस्कारेण सूत्रे मनोद्रव्याणि जानाति पश्यति चैतदिति व्यवडियते । एकरूपेऽपि ज्ञाने द्रव्याद्यपेक्षक्षयोपशमवैचित्र्येण सामान्यरूपमनोद्रव्याकारपरिच्छेदापेक्षया पश्यतीति, विशिष्टतरमनोद्रव्याकारपरिच्छेदापेक्षया च जानातीत्येवं वा व्याचक्षते । आपेक्षिकसामान्यज्ञानस्यापि व्यावहारिकावग्रहन्यायेन व्यावहारिकदर्शनरूपत्वात् । निश्चयतस्तु सर्वमपि तज्ज्ञानमेव, मनःपर्यायदर्शनानुपदेशादिति द्रष्टव्यम् । नव्यास्तु बाह्यार्थाकारानुमापकमनोद्रव्याकारग्राहकं ज्ञानमवधिविशेष एव, अप्रमत्तसंयमविशेषजन्यतावच्छेदकजातेरवधित्वव्याप्याया एवं कल्पनाधर्मि(कल्पनात)इति न्यायात्। इत्थं हि जानाति पश्यतीत्यत्र दृशेरवधिदर्शनविषयत्वेनैवोपपत्तो लक्षणाकल्पनगौरवमपि परिहृतं भवति । सूत्रे भेदाभिधानं च धर्मभेदाभिप्रायम् । यदि सङ्कल्पविकल्पपरिणतद्रव्यमात्रग्राह्यभेदात्तग्राहकं ज्ञानमतिरिक्तमित्यत्र निर्बन्धस्तदा द्वीन्द्रियादीनामपीष्टानिष्टप्रवृत्तिनिवृत्तिदर्शनात्तजनकसूक्ष्मसङ्कल्पजननपारणतद्रव्यावषयमपि मनःपर्यायज्ञानमभ्युपगन्तव्यं स्यात् ,चेष्टाहेतोरेव मनसस्तग्राह्यत्वात्। न च तेन द्वीन्द्रियादीनां समनस्कतापत्तिः, कपर्दिकासत्तया धनित्यस्येव,एकया गवा गोमवस्येव(वा),सक्ष्मेण मनसा समनस्कत्वस्यापादयितुमशक्यत्वात् , तदिदमभिप्रेत्योक्तं निश्चयद्वात्रिंशिकायां महाका मन:पर्यावज्ञाननिरूपणे तलक्षणेऽतिव्याप्त्यादिदोषोद्धारः, मनःपर्यायझानस्याक विज्ञानत्व मेवेतिनव्यमतस्योपदर्शनम् ॥ PAPER .॥९८॥

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252