Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 224
________________ बीज्ञान VA न च कल्पिता विषयता कर्मत्वाप्रयोजिका, वास्तवविषयतायाः कुत्राप्यनङ्गीकाराव्यावहारक्याश्च तुल्यत्वात् । न च ब्रह्मणि ज्ञान विषयताऽसम्भवेऽपि ज्ञाने ब्रह्मविषयता तद्विम्बग्राहकत्वरूपाज्या वा काचिदनिर्वचनीया सम्भवतीति नानुपपत्तिः, विषयतैवाकार प्रकरणम्॥ प्रतिविषयं विलक्षणः, अत एव ब्रह्माकारापरोक्षप्रमाया एवाज्ञाननिवर्तकत्वं, अज्ञानविषयस्वरूपाकारापराक्ष मात्वस्य सर्वत्रानुग॥१०४॥6 तत्वात् । न चेदमित्याकारं घटाकारमिति शकितुमपि शक्यं, आकारभदेस्य स्फुरतरसाक्षिप्रत्यक्षासिद्ध त्वादिति वाच्यम्, ज्ञाननिष्ठाया अपि ब्रह्मविषयताया ब्रह्मनिरूपितत्वस्यावश्यकत्वेन ब्रह्मणि तनिरूपकत्वधर्मसत्वे निर्धर्मकत्वव्याघातात, उभयनिरूप्यस्य विषयविषयिभावस्यैकधर्मत्वेन निर्वाहायोगात् । न च ब्रह्मग्यपि कल्पितविषयतोपगमे कर्मत्वेन न जडत्वापात:, स्वसमानसत्ताकविषयताया एव कर्मत्वापादकत्वात्, घटादौ हि विषयता स्वसमानसताका, द्वयोरपि व्यावहारकबाद, ब्रह्मणि तु परमार्थसति व्यावहारिकी विषयता न तथेति स्फुटमेव वैषम्यादिति वाच्यम्, सत्ताया इव विषयताया अपि ब्रह्मणि पारमार्थिकत्वोक्तावपि बाधकाभावात्, परमार्थनिरूपितधर्मस्य व्यावहारिके व्यावहारिकत्ववव्यावहारिकनिरूपितस्य धर्मस्य पारमार्थिक पारमार्थिकताया अपि न्यायप्राप्तत्वात् । सत्ताद्युपलक्षणभेदेऽप्युपलक्ष्यमेकमेवेति न दोष इति चेद्, विषयतायामप्येष एव न्यायः । एवं चानन्तधर्मात्मकधर्म्यभेदेऽपि ब्रह्मणि कौटस्थ्यं द्रव्यार्थादेशादव्याहतमेव । तथा चान्यूनानतिरिक्तधर्मात्मद्रव्यस्वभावलाभलक्षणमोक्षगुणेन भगवन्तं तुष्टाव स्तुतिकारः(सिद्धसेनद्वात्रिंशिका ४) "भवबीजमनन्तमुज्झितं, विमलज्ञानमनन्तमार्जितम् ॥ न च हीनकलोऽसि नाधिका, समतां चाप्यतिवृत्य वर्तसे ॥ २९ ॥ इति"। एतेन "चैतन्यविषयतैव जडत्वापादिका, न तु P वृत्तिविषयतापि, “यतो वाचो निवर्तन्ते," "न चक्षुषा गृह्यते, नापि वाचा," "तं त्वौपनिषदं पुरुष पृच्छामि" "नावेदविन्मनुते तं केवलज्ञाननिरूपणे वेदान्तिमतखण्डने बह्मज्ञानस्याज्ञाननिवर्त्त कत्वास५ म्भवे ज्ञाने ब्रह्मनिरूप| तविषयत्वा भावव्यवस्थापनं द्र | व्यादेशाद ब्रह्मकौटस्थ्ये | सिद्धसेनमूरिसंवादः॥ REP ॥१० ॥

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252