________________
बीज्ञान
VA
न च कल्पिता विषयता कर्मत्वाप्रयोजिका, वास्तवविषयतायाः कुत्राप्यनङ्गीकाराव्यावहारक्याश्च तुल्यत्वात् । न च ब्रह्मणि ज्ञान
विषयताऽसम्भवेऽपि ज्ञाने ब्रह्मविषयता तद्विम्बग्राहकत्वरूपाज्या वा काचिदनिर्वचनीया सम्भवतीति नानुपपत्तिः, विषयतैवाकार प्रकरणम्॥
प्रतिविषयं विलक्षणः, अत एव ब्रह्माकारापरोक्षप्रमाया एवाज्ञाननिवर्तकत्वं, अज्ञानविषयस्वरूपाकारापराक्ष मात्वस्य सर्वत्रानुग॥१०४॥6
तत्वात् । न चेदमित्याकारं घटाकारमिति शकितुमपि शक्यं, आकारभदेस्य स्फुरतरसाक्षिप्रत्यक्षासिद्ध त्वादिति वाच्यम्, ज्ञाननिष्ठाया अपि ब्रह्मविषयताया ब्रह्मनिरूपितत्वस्यावश्यकत्वेन ब्रह्मणि तनिरूपकत्वधर्मसत्वे निर्धर्मकत्वव्याघातात, उभयनिरूप्यस्य विषयविषयिभावस्यैकधर्मत्वेन निर्वाहायोगात् । न च ब्रह्मग्यपि कल्पितविषयतोपगमे कर्मत्वेन न जडत्वापात:, स्वसमानसत्ताकविषयताया एव कर्मत्वापादकत्वात्, घटादौ हि विषयता स्वसमानसताका, द्वयोरपि व्यावहारकबाद, ब्रह्मणि तु परमार्थसति व्यावहारिकी विषयता न तथेति स्फुटमेव वैषम्यादिति वाच्यम्, सत्ताया इव विषयताया अपि ब्रह्मणि पारमार्थिकत्वोक्तावपि बाधकाभावात्, परमार्थनिरूपितधर्मस्य व्यावहारिके व्यावहारिकत्ववव्यावहारिकनिरूपितस्य धर्मस्य पारमार्थिक पारमार्थिकताया अपि न्यायप्राप्तत्वात् । सत्ताद्युपलक्षणभेदेऽप्युपलक्ष्यमेकमेवेति न दोष इति चेद्, विषयतायामप्येष एव न्यायः ।
एवं चानन्तधर्मात्मकधर्म्यभेदेऽपि ब्रह्मणि कौटस्थ्यं द्रव्यार्थादेशादव्याहतमेव । तथा चान्यूनानतिरिक्तधर्मात्मद्रव्यस्वभावलाभलक्षणमोक्षगुणेन भगवन्तं तुष्टाव स्तुतिकारः(सिद्धसेनद्वात्रिंशिका ४) "भवबीजमनन्तमुज्झितं, विमलज्ञानमनन्तमार्जितम् ॥
न च हीनकलोऽसि नाधिका, समतां चाप्यतिवृत्य वर्तसे ॥ २९ ॥ इति"। एतेन "चैतन्यविषयतैव जडत्वापादिका, न तु P वृत्तिविषयतापि, “यतो वाचो निवर्तन्ते," "न चक्षुषा गृह्यते, नापि वाचा," "तं त्वौपनिषदं पुरुष पृच्छामि" "नावेदविन्मनुते तं
केवलज्ञाननिरूपणे वेदान्तिमतखण्डने बह्मज्ञानस्याज्ञाननिवर्त्त
कत्वास५ म्भवे ज्ञाने
ब्रह्मनिरूप| तविषयत्वा
भावव्यवस्थापनं द्र | व्यादेशाद ब्रह्मकौटस्थ्ये | सिद्धसेनमूरिसंवादः॥
REP
॥१०
॥