________________
बृहन्तं वेदेनैव यद्वेदितव्यम्" इत्याद्युभयविधश्रुत्य नुसारेणेत्थं कल्पनात् "फलव्याप्यत्वमेवास्य, शास्त्रकृद्भिर्निवारितम् ।।" ब्रह्मण्यज्ञाननाशाय, वृत्तिव्याप्तिरपेक्षिता ॥ १ ॥ " इति कारिकायामपि फलपदं चैतन्यमात्रपरमेव द्रष्टव्यं प्रमाणजन्यान्तःकरणवृत्यभिव्यक्तचैतन्यस्य शास्त्रे फलत्वेन व्यवह्रियमाणस्य ग्रहणे तद्वयाप्यताया अन्वयव्यतिरेकाभ्यां जडत्वापादकत्वे ब्रह्मण इव साक्षिभास्यानामपि जडत्वानापतेः, चैतन्यकर्मता तु चिद्भिनत्वावच्छेदेन सर्वत्रैवेति सैव जडत्वप्रयोजिका, न च वृत्तिविषयत्वेऽपि चैतन्यविषयत्वं नियतं वृत्तेश्चिदाकारगर्भिण्या एवोत्पत्तेः, तदुक्तम्- "वियद्वस्तुस्वभावानुरोधादेव न कारणात् || वियत्सम्पूर्णतोत्पत्तौ कुम्भस्यैवं द(दृ)शा धियाम् ||१|| घटदुःखादिहेतुत्वं धियो धर्मादिहेतुतः । स्वतः सिद्धार्थसम्बोध-व्याप्तिर्वस्त्वनुरोधतः ॥२॥ इति,” तथा च जडत्वं दुर्निवारमिति वाच्यम्, वृच्युपरक्तचैतन्यस्थ स्वत एव चैतन्यरूपत्वेन तद्वयाप्यत्वाभावात् फले फलान्तरानुत्पत्तेस्तद्भिन्नानां तु स्वतो मानरहितानां तद्वयाप्तेरवश्याश्रयणीयत्वाद् इत्यादि" मधुसूदनाक्तमप्यपास्तम्, वृचिविषयताया अपि निर्धर्म के ब्रह्मण्यसम्भवात्, कल्पितविषयतायाः स्वीकारे च कल्पितप्रकारताया अपि स्वीकारापत्तेः, उभयोरपि ज्ञानभासक साक्षिभास्यत्वेन चैतन्यानुपरञ्जकत्वाविशेषात्, ज्ञानस्य स्वविषयानिवर्तकत्वेन प्रकारानिवृत्तिप्रसङ्गभयस्य च विषयताद्यानिवृत्तिपक्ष इव धर्मधर्मिणोर्जात्यन्तरात्मकभेदाभेदसम्बन्धाश्रयणेनैव सुपरिहरत्वात्, कृतान्तकोपस्त्वेकान्तवादिनामुपरि कदापि न निवर्तत इति तत्र कः प्रतिकारः । यदि च दृग्विषयत्वं ब्रह्मणि न वास्तवं, तदा सकृद्दर्शनमात्रेणात्मनि घटादाविव हगपगमे ऽपि द्रष्टृत्वं कदापि नापैतीत्यु (त्याद्युक्तं न युज्यते । तथा च "सकृत्प्रत्ययमात्रेण, घटश्रेद्भासते तदा । स्वप्रकाशोऽयमात्मा किं, घटवच्च न भासते ॥ १ ॥ स्वप्रकाशतया किं ते, तद्बुद्धिस्तव वेदनम् ॥ बुद्धिश्र क्षणनाश्येति, चोद्यं तुल्यं घटादिषु ||२|| घटादौ निश्चिते बुद्धिर्नश्यत्येव यदा घटः ।।
केवलज्ञान
निरूपणे वेदान्तिमतखण्डने ब्रह्म
णि पञ्चदशीवचनतो वृ
त्तिविपयत्व
व्यवस्थापि
काया मधु
सूदनो के
खण्डनम् ॥