SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ मौज्ञानबिन्दु प्रकरणम्। ॥ १०५ ॥ (इ)ष्टी नेतुं तदाशक्य, इति चेत्सममात्मनि ॥३॥ निश्चित्य सकृदात्मानं, यदापेक्षा तदैव तम् ।। वक्तुं मन्तुं तथा ध्यातुं शक्रोत्येव हि तत्त्ववित्॥४॥ उपासक इव ध्यायें - लौकिकं विस्मरेद्यदि । विस्मरत्येव सा ध्याना-द्विस्मृतिर्न तु वेदनात् ॥ २५ ॥ इत्यादि ध्यानदीपवचनं विप्लवेतेति विमतिविस्तरेण । तस्माद्ब्रह्मविषया ब्रह्माकारा वा वृत्तिरविवेचितसारैव । कथञ्चास्या निवृत्तिरिति वक्तव्यं, स्वकारणाज्ञाननाशादिति चेत्, अज्ञाननाशक्षण इवावस्थितस्य विनश्यदवस्थाज्ञानजनितस्य वा दृश्यस्य चिरमप्यनुवृत्तौ मुक्तावनाश्वासः । उक्त प्रमाविशेषत्वेन निवर्तकता दृश्यत्वेन च निवर्त्यतेति दृश्यत्वेन रूपेणाविद्यया सह स्वनिवर्त्यत्वेऽपि न दोषः, निवर्त्यतानिवर्तकतयोरवच्छेदकैक्य एव क्षणभङ्गापत्तेरिति चेत्, प्रमाया अप्रमां प्रत्येव निवर्तकत्वदर्शनेन दृश्यत्वस्य निवर्त्यताऽनवच्छेदकत्वात् । न च ज्ञानस्याज्ञाननाशक तापि प्रमाणसिद्धा, अन्यथा स्वमाद्यध्यास कारणीभूतस्याज्ञानस्य जागरादिप्रमाणज्ञानेन निवृत्तौ पुनः स्वमाध्यासानुपपत्तिः, तत्रानेकाज्ञान स्वीकारे स्वात्मन्यपि तथासम्भवेन मुक्तावनाश्वासः, मूलाज्ञानस्यैव विचित्रानेकशक्तिस्व । कारादेकशक्तिनाशेऽपि शक्त्यन्तरेण स्वभान्तरादीनां पुनरावृत्तिः सम्भवति, सर्वशक्तिमतो मूलाज्ञानस्यैव निवृत्तौ तु कारणान्तरासम्भवात्, द्वितीयस्य च तादृशस्यानङ्गीकारान्न प्रपञ्चस्य पुनरुत्पत्तिरिति तु स्ववासनामात्रं, चरमज्ञानं वा मूलाज्ञाननाशकं क्षणविशेषो वेत्यत्र विनिगमकाभावादनन्तोत्तरोत्तरशक्तिकार्येष्वनन्त पूर्वपूर्वशक्तीनां प्रतिबन्धकत्वस्य, चरमशक्तिकार्ये चरमशक्तेः, तन्नाशे च चरमज्ञानस्य हेतुत्वकल्पने महागौरवात्, पूर्वशक्तिनाश इव चरमशक्तिनाशेऽपि पण्डमूलाज्ञानानुवृस्यापत्यनुद्वाराच्चेति न किश्चिदेतत् । एतेन "जागरादिभ्रमेण स्वमादिभ्रमतिरोधानमात्रं क्रियते, सर्पभ्रमेण रज्ज्वां धाराभ्रमतिरोधानवत्, अज्ञाननिवृत्तिस्तु ब्रह्मात्मैक्यविज्ञानादेव” इत्यपि निरस्तम् । एवं सति ज्ञानस्याज्ञान निवर्तकतायां प्रमाणानुपलब्धेस्तनिवृत्तिमूलमोक्षानाश्वासाद् माभूदुदाह केवलज्ञाननिरूपणे वेदान्तिमत खण्डने बह्माकारवृत्ति नाशकख ण्डने ज्ञान स्याज्ञाननाशकत्व खण्डनम् ॥ ।। १०५ ।।
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy