________________
चानुगतमिति निष्प्रकारक ब्रह्मज्ञानस्यापि ब्रह्माज्ञाननिवर्तकत्वं लक्षणान्वयात् । न च सामान्यधर्ममात्रप्रकारकज्ञानेऽव्याप्तिः, इदमनिदं वा, प्रमेयमप्रमेयं वेत्यादिसंशयादर्शनेन ( संशयाद्यदर्शनात्सामान्यमात्रप्रकारकाऽज्ञानानङ्गीकारेण ) तदनिवर्तकस्य तस्यासङ्ग्रहादिति वाच्यम्, निष्प्रकार कसंशयाभावेन निष्प्रकारकाज्ञानासिद्धया निष्प्रकारक ब्रह्मज्ञानस्यापि तन्निवर्तकत्वायोगात्, एकत्र धर्मिणि प्रकाराणामनन्तत्वे प्रकारनिष्ठतया निरखच्छिन्नप्रकारतासम्बन्धेनाधिष्ठानप्रमात्वेन तया तदज्ञाननिवर्त कत्वौचित्यात् । अधिष्ठानत्वं च भ्रमजनकाज्ञानविषयत्वं वाऽज्ञानविषयत्वं वाऽखण्डेोपाधिर्वा १, न च विषयतयैव तवं युक्तम्, प्रमेयत्वस्य च केवलान्वयिनोऽनङ्गीकारान्न प्रमेयमिति ज्ञानादू घटाद्याकाराज्ञाननिवृत्तिप्रसङ्ग इति वाच्यम्, द्रव्यमिति ज्ञानात्तदापत्तरवारणात् । न च तस्य द्रव्यत्वविशिष्टविषयत्वेऽपि घटत्वविशिष्टाविषयत्वात्तद्वारणं, द्रव्यत्वविशिष्टस्यैव घटावच्छेदेन घटत्वविशिष्टत्वात्, सच्वविशिष्टब्रह्मवत् विशिष्टविषयज्ञानेन विशिष्टविषयाज्ञाननिवृत्यभ्युपगमेऽपि च ब्रह्मणः सच्चिदानन्दत्वादिधर्मवैशिष्टयप्रसङ्गः । एतेन " अन्यत्र घटाज्ञानत्वघटत्वप्रकारकप्रमात्वादिना नाश्यनाशकभावेऽपि प्रकृते ब्रह्माज्ञाननिवृत्तित्वेन ब्रह्मप्रमात्वेनैव कार्यकारणभावः, न तु ब्रह्मत्वप्रकार के तिविशेषणमुपादेयं गौरवादनुपयोगाद्विरोधाच्च " इत्यपि निरस्तम्, विशिष्टब्रह्मण एव संशयेन विशिष्टाज्ञान निवृत्यर्थं विशेषोपरागेणैव ब्रह्मज्ञानस्यान्वेषणीयत्वात्, शुक्तिरजतादिस्थले - पि विशिष्टाज्ञानविषयस्यैवाधिष्ठानत्वं क्लृप्तमित्यत्राप्ययं न्यायोऽनुसर्तव्यः । किं च ब्रह्मणो निर्धर्मकत्वे तत्र विषयताया अप्यनुपपत्वाद्वषयज्ञानत्वमपि तत्र दुर्लभं विषयता हि कर्मतेति तदङ्गीकारे तस्य क्रियाफलशालित्वेन घटादिवज्जडत्वापत्तेः, तद्विषयज्ञानाजनकत्वे व तत्र वेदान्तानां प्रामाण्यानुपपत्तिः । न च तदज्ञान निवर्तकतामात्रेण तद्विषयत्वोपचारः, अन्योऽन्याश्रयात् ।
केवलज्ञाननिरूपणे वे
दान्तिमत
खण्डने तत्र
ब्रह्मज्ञानस्या
ज्ञाननिर्वत्त
कत्वासम्भ
वे ब्रह्मणो ज्ञानविषय
त्वासम्भवीपपादनम् ॥