________________
माज्ञानबिन्दु
॥१.३॥
SARKARISHABAD
प्रपञ्चस्य तत्वज्ञानेन बाधितस्यापि प्रारब्धवशेन बाधितानुवृत्या प्रतिभासः तृतीयस्याः शक्तः कार्यम्, तेन बाधितानुवृत्त्या प्रतिमासानुकूला तृतीया शक्तिः प्रातिमासिकसत्वसम्पादनपटीयसी शक्तिरुच्यते, सा चान्तिमतत्त्वबोधेन निवर्तत इत्येवमदोष इति चेत्, न, बाधितं हि त्वन्मते नाशितं, तस्यानुवृत्तिरिति वदतो व्याघातात् । बाधितत्वेन बाधितत्वावच्छिन्नसत्या वा प्रतिभासस्तत्व:ज्ञप्रारम्धकार्यमिति चेत्,तृतीया शक्तिर्व्यर्था, यावद्विशेषाणां बाधितत्वे तेषां तथाप्रतिभासस्य सार्वज्ञाभ्युपगम विनानुपपत्तेश्व, द्वितीय
शक्तिविशिष्टाज्ञाननाशात् सहितकर्म तत्कार्य च नश्यति, ततस्तृतीयशच्या प्रारम्धकार्ये दग्धरज्जुस्थानीया बाधितावस्था जन्यते, इयमेव बाधितानुवृत्तिरिति चेत्,न,एवं सति घटपटादौ तत्त्वज्ञस्य न बाधितसवधीः, न वा व्यावहारिकपारमार्थिकसत्त्वधीरिति तत्र किञ्चिदन्यदेव कल्पनीयं स्यात,तथा च लोकशास्त्रविरोध इति सुष्ठतं हरिभद्राचार्यैः-(घोडशक १६) "अग्निजलभूमयो यत्,परितापकरा भवेऽनुभवसिद्धाः ॥रागादयश्च रौद्रा, असत्प्रवृत्यास्पदं लोके ॥८॥ परिकल्पिता यदि ततो, न सन्ति तस्वेन कथममी स्युरिति ॥ परिकल्पिते च तत्त्वे, भवभवविगमौ कथं युक्तौ ॥ ९॥ इत्यादि । तस्माद्वृत्तेर्व्यावहारिकसचयापि न निस्तारः । प्रपञ्चे परमार्थदृष्टयेव व्यवहारदृष्टयापि सत्तान्तरानवगाहनादिति स्मर्तव्यम्। किं च "सप्रकारं निष्प्रकार वा ब्रह्मज्ञानमज्ञाननिवर्तकमिति वक्तव्यं, आये निष्प्रकारे ब्रह्मणि सप्रकारकज्ञानस्यायथार्थत्वाबाजाननिवर्तकता, तस्य यथार्थत्वे वा नाद्वैतसिद्धिः, द्वितीयपक्षस्तु निष्प्रकारकज्ञानस्य कुत्राप्यज्ञाननिवर्तकत्वादर्शनादेवानुद्भावनाहः।। "किं च निष्प्रकारकज्ञानस्य कुत्राप्यज्ञाननिवर्तकत्वं न दृष्टमिति शुद्धब्रह्मज्ञानमात्रात्कथमज्ञाननिवृत्तिः, न च सामान्यधर्ममात्राप्रकारकसमानविषयप्रमात्वमज्ञाननिवृत्तौ प्रयोजक, अत्र प्रमेयमिति ज्ञानेऽतिव्याप्तिवारणाय सामान्येति, प्रमेयो घट इत्यादावव्याप्तिवारणाय मात्रेति, तेनेदं विशेषप्रकारे निष्प्रकारे
केवलज्ञाननिरूपणे वेदान्तिमनखण्डने तत्त्वज्ञानानन्तरं मायानवत्तेः खण्डने, तत्र लोकशास्त्रविरोधे ह. रिभद्रसूरिसंवादो ब. ह्मज्ञानस्याज्ञाननिवर्तकत्वासम्भवश्च ॥
P॥ १०३ ॥