Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
भज्ञान
बिन्दुप्रकरणम् ।।
॥ १०१ ॥
पश्यंस्तदुद्दिधीर्षया नैरात्म्य क्षणिकत्वादिकमवगच्छमपि तेषामुपकार्यसश्वानां निष्क्लेशक्षणोत्पादनाय प्रयतते, ततो जातसकलजगत्साक्षात्कारः समुत्पन्न केवलज्ञानः पूर्वाहितकृपा विशेषसंस्कारात् कृतार्थोऽपि देशनायां प्रवर्तते, अधिगततत्तात्पर्यार्थाश्च स्वसन्ततिगत विशिष्टक्षणोत्पत्तये मुमुक्षवः प्रवर्तन्ते, " इति न किमप्यनुपपन्नमित्याहुः ''तदखिलमज्ञानविलसितम् । आत्माभावे बन्धमोक्षा'काधिकरणत्वायोगात् । न च सन्तानापेक्षया समाधिः, तस्यापि क्षणानतिरेके एकत्वासिद्धेः, एकत्वे चन्द्रव्यस्यैव नामान्तरत्वात् सजातीयक्षणप्रबन्धरूपे सन्ताने च न कारकव्यापार इति समीचीनं मुमुक्षुप्रवृत्त्युपपादनम् । अथाक्लिष्टक्षणेऽक्लिष्टक्षणत्वेनोपादानत्वमिि सजातीयक्षणप्रबन्धेोपपत्तिः, बुद्धदेशितमार्गे तु तत्प्रयोजकत्वज्ञानादेव प्रवृत्तिरिति चेत्, न, एकान्तवादेऽनेन रूपेण निमित्तत्वमनेन रूपेण चोपादानत्वमिति विभागस्यैव दुर्वचत्वात् । अक्लिष्टक्षणेऽक्लिष्टक्षणत्वेनैवोपादानत्वे आद्याक्लिष्टक्षणस्यानुत्पत्तिप्रसङ्गादन्त्य - क्लिष्टक्षणसाधारणस्य हेतुतावच्छेदकस्य कल्पने च क्लिष्टक्षणजन्यतावच्छेदकेन साङ्कर्याञ्जन्यजनकक्षणप्रबन्धकोटावेकैकक्षण शपरित्यागयोर्विनिगमकाभावाच्च । एतेन ' इतरव्यावृत्त्या शक्तिविशेषेण वा जनकत्वम्' इत्यप्यपास्तम् । न चैतदनन्तरमहमुत्पन्न. मेतस्य चाहं जनकमित्यवगच्छति क्षणरूपं ज्ञानमिति न भवन्मते कार्यकारणभावः, नापि तदवगमः, ततो याचितकमण्डनमेतदेकसन्ततिपतितत्वादेकाधिकरणं बन्धमोक्षादिकमिति । एतेन ' उपादेयोपादानक्षणानां परस्परं वास्यवासक भावादुत्तरोत्तरविशिष्टविशिष्टतरक्षणोत्पत्तेः मुक्तिसम्भव' इत्यप्यपास्तम्, युगपद्भाविनामेव तिलकुसुमादीनां वास्यवासकभावदर्शनात् । उक्तञ्च - " वास्यवासकयोश्चैव-मसाहित्यान्न वासना ॥ पूर्वक्षणैरनुत्पन्नो, वास्यते नोत्तरक्षणः ॥ १ ॥ इति" । कल्पित शुद्धक्षणैकसन्तानार्थितयैव मोक्षो पाये सौगतानां प्रवृत्तिः, तदर्थैव च सुगतदेशनेत्य म्युपगमे च तेषां मिथ्यादृष्टित्वं, तत्कल्पितमोक्षस्य च मिध्यात्वं स्फुटमेव, अधिकं
प्रवे
केवलज्ञान
निरूपणे
निरुक्तबौद्ध
मतस्य खण्ड
नं, बौद्धमते
आत्माऽभावे बन्धमोक्षैकाधिकर
ण्यासम्भवः
कार्यकारण
भावाद्यसम्भ
वश्व |
९ ॥ १०१ ॥

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252