SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ भज्ञान बिन्दुप्रकरणम् ।। ॥ १०१ ॥ पश्यंस्तदुद्दिधीर्षया नैरात्म्य क्षणिकत्वादिकमवगच्छमपि तेषामुपकार्यसश्वानां निष्क्लेशक्षणोत्पादनाय प्रयतते, ततो जातसकलजगत्साक्षात्कारः समुत्पन्न केवलज्ञानः पूर्वाहितकृपा विशेषसंस्कारात् कृतार्थोऽपि देशनायां प्रवर्तते, अधिगततत्तात्पर्यार्थाश्च स्वसन्ततिगत विशिष्टक्षणोत्पत्तये मुमुक्षवः प्रवर्तन्ते, " इति न किमप्यनुपपन्नमित्याहुः ''तदखिलमज्ञानविलसितम् । आत्माभावे बन्धमोक्षा'काधिकरणत्वायोगात् । न च सन्तानापेक्षया समाधिः, तस्यापि क्षणानतिरेके एकत्वासिद्धेः, एकत्वे चन्द्रव्यस्यैव नामान्तरत्वात् सजातीयक्षणप्रबन्धरूपे सन्ताने च न कारकव्यापार इति समीचीनं मुमुक्षुप्रवृत्त्युपपादनम् । अथाक्लिष्टक्षणेऽक्लिष्टक्षणत्वेनोपादानत्वमिि सजातीयक्षणप्रबन्धेोपपत्तिः, बुद्धदेशितमार्गे तु तत्प्रयोजकत्वज्ञानादेव प्रवृत्तिरिति चेत्, न, एकान्तवादेऽनेन रूपेण निमित्तत्वमनेन रूपेण चोपादानत्वमिति विभागस्यैव दुर्वचत्वात् । अक्लिष्टक्षणेऽक्लिष्टक्षणत्वेनैवोपादानत्वे आद्याक्लिष्टक्षणस्यानुत्पत्तिप्रसङ्गादन्त्य - क्लिष्टक्षणसाधारणस्य हेतुतावच्छेदकस्य कल्पने च क्लिष्टक्षणजन्यतावच्छेदकेन साङ्कर्याञ्जन्यजनकक्षणप्रबन्धकोटावेकैकक्षण शपरित्यागयोर्विनिगमकाभावाच्च । एतेन ' इतरव्यावृत्त्या शक्तिविशेषेण वा जनकत्वम्' इत्यप्यपास्तम् । न चैतदनन्तरमहमुत्पन्न. मेतस्य चाहं जनकमित्यवगच्छति क्षणरूपं ज्ञानमिति न भवन्मते कार्यकारणभावः, नापि तदवगमः, ततो याचितकमण्डनमेतदेकसन्ततिपतितत्वादेकाधिकरणं बन्धमोक्षादिकमिति । एतेन ' उपादेयोपादानक्षणानां परस्परं वास्यवासक भावादुत्तरोत्तरविशिष्टविशिष्टतरक्षणोत्पत्तेः मुक्तिसम्भव' इत्यप्यपास्तम्, युगपद्भाविनामेव तिलकुसुमादीनां वास्यवासकभावदर्शनात् । उक्तञ्च - " वास्यवासकयोश्चैव-मसाहित्यान्न वासना ॥ पूर्वक्षणैरनुत्पन्नो, वास्यते नोत्तरक्षणः ॥ १ ॥ इति" । कल्पित शुद्धक्षणैकसन्तानार्थितयैव मोक्षो पाये सौगतानां प्रवृत्तिः, तदर्थैव च सुगतदेशनेत्य म्युपगमे च तेषां मिथ्यादृष्टित्वं, तत्कल्पितमोक्षस्य च मिध्यात्वं स्फुटमेव, अधिकं प्रवे केवलज्ञान निरूपणे निरुक्तबौद्ध मतस्य खण्ड नं, बौद्धमते आत्माऽभावे बन्धमोक्षैकाधिकर ण्यासम्भवः कार्यकारण भावाद्यसम्भ वश्व | ९ ॥ १०१ ॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy