________________
अ
AKASHA
लतायाम् । एतेन ' अखण्डाद्वयानन्दकरसनमज्ञानमेव केवलज्ञान, तत एव चाविद्यानिवृत्तिरूपमोक्षाधिगम' इति वेदान्तिमतमपि निरस्तम्, तादृशविषयाभावेन तज्ज्ञानस्य मिथ्यात्वात्, कीदृशं च ब्रह्मज्ञानमज्ञाननिवर्तकमभ्युपेयं देवानांप्रियेण, न केवलचैतन्यं,तस्य सर्वदा सत्त्वेनाविद्याया नित्यनिवृचिप्रसङ्गात् ततश्च तन्मलसंसारोपलन्ध्यसम्भवात्सर्वशास्त्रानारम्भप्रसगादनुभवविरोधाच, नापि वृत्तिरूपं, वृत्तः सत्यत्वे तत्कारणान्त:करणाविद्यादेरपि सत्त्वस्यावश्यकत्वेन तया तन्निवृत्तेरशक्यतया सर्ववेदान्तार्थविप्लवापत्तेः, मिथ्यात्वे च कथमज्ञाननिवर्तकता । न हि मिथ्याज्ञानमज्ञाननिवर्तकं दृष्टम्, स्वमज्ञानस्यापि तत्त्वप्रसगात् । न च "सत्यस्यैव चैतन्यस्य प्रमाणजन्यापरोक्षान्तःकरणवृत्त्यभिव्यक्तस्याज्ञाननिवर्तकत्वाद्वृत्तेश्च कारणतावच्छेदकत्वेन दण्डत्वादिवदन्यथासिद्धत्वेन कारणत्वानङ्गीकारात् , अवच्छेदकस्य कल्पितत्वेऽप्यवच्छेद्यस्य वास्तवत्वं न विहन्यते, यद्रजतत्वेन भातं तच्छुक्तिद्रव्यमितिवद, तार्किकैरप्याकाशस्य शब्दग्राहकत्वे कर्णशष्कुलीसम्बन्धस्य कल्पितस्यैवावच्छेदकत्वाङ्गीकारात्, संयोगमात्रस्य निरखयवे नभसि सर्वात्मना सत्त्वेनातिप्रसञ्जकत्वात् । मीमांसकैश्च कल्पितइस्वत्वदीर्घत्वादिसंसर्गावच्छिन्नानामेव वर्णानां यथार्थज्ञानजनकत्वोपगमाद्ध्वनिधर्माणां ध्वनिगतत्वेनैव भानात् , वर्णानां च विभूनामानुपूर्वीविशेषाज्ञानादतिप्रसङ्गात , वर्णनिष्ठत्वेन इस्वत्वादिकल्पनस्य तेषामावश्यकत्वात् , तद्वदस्माकमपि कल्पितावच्छेदकोपगमे को दोष" इति मधुसूदनंतपस्विनोऽपि वचनं विचारसह, मिथ्यादृग्दृष्टान्तस्य सम्यग्दृशां ग्रहणानौचित्यात् , नैयायिकमीमांसकोक्तस्थलेपि अनन्तधर्मात्मकैकवस्तुस्वीकारे कल्पितावच्छेदककृतविडम्बनाया अप्रसरात,विस्तरेणोपपादितं चैतत्सम्मतिवृत्तौ । न चोक्तरीत्या वृत्तेरवच्छेदकत्वमपि युक्तं,प्रतियोगितयाज्ञाननिवृत्तौ सामानाधिकरण्येन समानविशेष्यकसमानप्रकारकवृत्तरेव त्वन्मते हेतुत्वस्य युक्तत्वात्। अत एव
SARKABRAHARASHRESI
केवलज्ञाननिरूपणे ब| ह्मज्ञानलक्ष
णकेवलज्ञानस्याविद्यानिवृत्तिलक्षणमोक्षहेतुत्वमितिवेदा. न्तिमतस्य खण्डनं,तत्रमधुसूदनोकेरपाकरण