________________
RE
इति वाच्यम्, तदवान्तरबैजात्यावच्छिन्नहेतुगवेषणायामपि कर्मण्येव विश्रामात् । किं चाभ्यासजनितप्रसरत्वात्प्रतिसंख्याननिवर्तनीयत्वाच्च न कफादिहेतुकत्वं रागादीनाम् । एतेन 'शुक्रोपचयहेतुक एव रागो नान्यहेतुक इत्याद्यपि चिरस्तम्, अत्यन्तस्त्रीसेवापरस्य क्षीणशुक्रस्यापि गगोद्रेकदर्शनात, शुक्रोपचयस्य सर्वस्त्रीसाधारणामिलापजनकत्वेन कस्यचित् कस्याश्चिदेव रागोद्रेक इत्यस्यानुपत्तश्चेप। न चासाधारण्ये रूपमेव हेतुः, तद्रहितायामपि कस्यचिद्रागदर्शनात् । न च तत्रोपचार एव हेतुः, द्वयेनापि विमुक्तायां रागदर्शनात् । तस्मादभ्यासदर्शनजनितोपचयपरिपाकं कर्मैव विचित्रस्वभावतया तदा तदा तत्तत्कारणापेक्षं तत्र तत्र रागादिहेतुरिति प्रतिपत्तव्यम् । एतेन 'पृथिव्यम्बुभ्यस्त्वे रागः, तेजोवायुभूयस्त्वे द्वेषा, जलवायुभूयस्त्वे मोह इत्यादयोऽपि प्रलापा निरस्ताः, तस्य विषयविशेषापक्षपातित्वादिति दिक । कर्मभृतानांरागादीनां सम्यग्ज्ञानक्रियाभ्यां क्षयेण वीतरागत्वं सर्वज्ञत्वं चानाविलमेव। शौद्धोदनीयास्तु-"नैरात्म्यादिभावनैव रागादिक्लेशहानिहेतु:, नैरात्म्यावगतावेवात्मात्मीयाभिनिवेशाभावेन रागद्वेवोच्छेदात संसारमूलनिवृत्तिसम्भवात,आत्मावगतौ च तस्य नित्यत्वेन तत्रस्नेहाचन्मूलतृष्णादिना क्लेशानिवृत्तेः।। तदुक्तम्-"य:पश्यत्यात्मानं,तत्रा| स्याहमिति शाश्वतः स्नेहः।। स्नेहात्सुखेषु तृष्यति,तृष्णा दोपांस्तिरस्कुरुते ॥११॥ गुणदर्शी परितृप्य-त्यात्मनि तत्साधनान्युपादत्त ॥ तेनात्माभिनिवेशो, यावत्तावच्च संसारः॥२॥ इति"। ननु यद्येवमात्मा न विद्यते, किंतु पूर्वापरक्षगाटतानुसन्धाना: पूर्वहेतुप्रतिबद्धा ज्ञानक्षणा एव तथा तथोत्पद्यन्त इत्यम्युपगमस्तदा परमार्थतो न कश्चिदुपकार्योपकारकस्वभाव इति कथाच्यते "भगवान् सुगतः करुणयासकलसत्त्वोपकाराय देशनां कृतवान्" इति,क्षणिकत्वमपि यद्येकान्तेन, तर्हि तत्ववेदी क्षणोऽनन्तरं विनष्टः सन्न कदाचनाप्यहं भयो भविष्यामीति जानानः किमर्थ मोक्षाय यतत इति?,अत्रोच्यते-"भगवान् हि प्राचीनावस्थायां सकलमपि जगदःखितं
SHARE
SECRECISAKAL
केवलज्ञाननिरूपणे शु
कोपचवादीनां रागादिहेतुत्कपतिक्षेप -- राम्यादिभावनाया रागादिक्षयहेितुत्वमिति
बौद्धभतोपक्रमः॥
तसम्भवात्, आत्मावगतात.तष्णा दोपास्तिरस्कृत
तु पूर्वापरबगाटतानुसार भगवान्
R
-