Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 195
________________ पार CAMERCESCENE परिणामः कदाचिद्विशिष्टगुणप्रतिपक्या कदाचिव तामन्तरेणैव स्यात्, भवप्रत्ययगुणप्रत्ययभेदेन तस्य द्वैविध्योपदर्शनात । मनःपर्यायजानावरणीयस्य तु विशिष्टसंयमाप्रमादादिप्रतिपचावेव तथास्वभावानामेव बन्धकाले तेषां बन्धनात, चक्षुर्दर्शनावरणादेरपि तत्तदिन्द्रियपर्याप्त्यादिघटितसामग्र्या तथापरिणामः । मतिश्रुतावरणाचक्षुदेशनावरणान्तरायप्रकृतीनां तु वनाश सदैव देशघातिनामेव रसस्पर्धकानामुदयो न सर्वघातिनां, ततः सदैव तासामौदयिकक्षायोपशमिको भावी सम्मिश्री प्राप्येते. न केवल औदयिक इति उक्तं पञ्चसङ्ग्रहमूलटीकायाम् । एतच्च तासां सर्वघातिरसस्पर्धेकानि येन तेनाध्यवसायेन देशघातीनि कर्तुं शक्यन्ते इत्यभ्युपगमे सति उपपद्यते, अन्यथा बन्धोपनीतानां मतिज्ञानावरणादिदेशघातिरसस्पर्धकानामानिवृत्तिबादराद्धायाः संख्येयेषु भागेषु गतेष्वेव सम्भवाचदर्वाग् मतिज्ञानाद्यभावप्रसङ्गर, तदभावे च तदललभ्यतदवस्थालाभानु-1 पपत्तिरित्यन्योऽन्याश्रयापातेन मतिज्ञानादीनां मूलत एवाभावप्रसङ्गात् । एवं मतिश्रुताज्ञानाचक्षुर्दर्शनादीनामपि क्षायोपशमिकत्वेन भणनात्सर्वघातिरसस्पर्धकोदये तदलाभादेशघातिरसस्पर्धकानां चार्वागबन्धादध्यवसायमात्रेण सर्वघातिनो देशघातित्वपरिणामानभ्युपगमे सर्वजीवानां तल्लाभानुपपत्तिरिति भावनीयम् । ननु यदि येन तेनाध्यवसायेनोक्तरसस्पर्धकानां सर्वघातिनां देशपतितया परिणामस्तदाग्दिशाय । तद्वन्ध एव किं प्रयोजनमिति चेत्, तत्कि प्रयोजनक्षतिभिया सामग्री कार्य नायतीति वक्तुमध्यवसितोऽसि । एवं हि पूर्णे प्रयोजने दृढदण्डनुनं चक्रं न भ्राम्येत, तस्मात्प्रकृते हेतुसमाजादेव सर्वघातिरसस्पर्धकबन्धौपयिकाध्यवसायेन तद्धन्धे तत्तदध्यवसायेन सर्वदा तद्देशघातित्वपरिणामे च बाधकामाकः। तदेवं ज्ञानावरणदर्शनावरणान्तरायाणां विपाकोदयेऽपि क्षयोपशमोऽविरुद्ध इति स्थितम् । मोहनीयस्य तु मिथ्या क्षयोपशम प्रक्रियायां चमत्यावर रणादीनां सर्वघातिर. सस्पर्धकान्यपिदेशघातितयैवोपभु ज्यन्ते तत्र च परकृतारिका तत्परिहारश्च ॥

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252