Book Title: Savivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Author(s): Yashovijay Gani
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 197
________________ तन मतिज्ञानत्वं श्रुतानयाप्तिः । श्रुतानुसारलाधारणात्म के मानदर्शनात, तत्मानोऽ मतिज्ञानलक्षणोपदर्शनं तत्र श्रुतानुसारित्वं ल क्षित र ASISAMAGES केवलज्ञानमिति पञ्च प्रकारा ज्ञानस्य ॥ तत्र मतिज्ञानत्वं श्रुताननुसार्यनतिशयितज्ञानत्वं, अवग्रहादिक्रमबदुपयोगजन्यज्ञानत्वं वा, अवध्यादिकमतिशयितमेव, श्रुतं तु श्रुतानुसार्यवेति न तयोरतिव्याप्तिः । श्रुतानुसारित्वं च धारणात्मकपदपदार्थसम्बन्धप्रतिसन्धानजन्यज्ञानत्वं, तेन न सविकल्पकज्ञानसामग्रीमात्रप्रयोज्यपदविषयताशालिनीहापायधारणात्मके मतिज्ञानेन्याप्तिः। ईहादिमतिज्ञानभेदस्य श्रुतज्ञानस्य च साक्षरत्वाविशेषेऽप्ययं घट इत्यपायोत्तरमयं घटनामको न वेति संशयादर्शनात्, तत्तनाम्नोऽप्यपायेन ग्रहणात, तद्धारणोपयोगे 'इदं पदमस्य वाचकं, अयमर्थ एतत्पदस्य वाच्य इति पदपदार्थसम्बन्धग्रहस्यापि धौव्येण तज्जनितश्रुतज्ञानस्यैव श्रुतानुसारित्वव्यवस्थितः । अत एव धारणात्वेन श्रुतहेतुत्वात् “मइपुव्वं सुझं" इत्यनेन श्रुतत्वावच्छेदेन मतिपूर्वत्वविधिः, “न मई सुअपुब्बिया" इत्यनेन च मतित्वसामानाधिकरण्येन श्रुतपूर्वत्वनिषेधोऽभिहितः सङ्गच्छते । कथं तर्हि श्रुतनिश्रिताश्रुतनिश्रितभेदेन मतिज्ञानद्वैविध्याभिधानमिति चेद्, उच्यते-स्वसमानाकारश्रुतज्ञानाहितवासनाप्रबोधसमानकालानत्वे सति श्रुतोपयोगाभावकालीनं श्रुतनिश्रितमवग्रहादिचतुर्भेदं, उक्तवासनाप्रबोधो धारणादाययोपयुज्यते, श्रुतोपयोगाभावश्च मतिज्ञानसामग्रीसम्पादनाय, उक्तवासनाप्रबोधकाले श्रुतज्ञानोपयोगबलाच्छ्तज्ञानस्यैवापत्तेः, मतिज्ञानसामय्याः श्रुतज्ञानोत्पत्तिप्रतिबन्धकत्वेऽपि शाब्देच्छास्थानीयस्य तस्योत्तेजकत्वात् । मतिज्ञानजन्यस्मरणस्य मतिज्ञानत्ववत् श्रुतज्ञानजन्यस्मरणमाप च श्रुतज्ञानमध्य एव परिगणनीयम् । उक्तवासनाप्रबोधासमानकालीनं च मतिज्ञानमौत्पत्तिस्यादिचतुर्भेदम श्रुतनिश्रितमित्यभिप्रायेण द्विधाविभागे दोषाभावः । तदिदमाह महाभाष्यकार:-"पुचि सुअपरिकम्मिय-मइस्स जं संपयं सुपआईअं॥ तं निस्मियमियरं पुण, आणिस्सि मइचउकं तं ॥ १६९ ॥ (ज्ञानार्णव पत्र २५) इति"। अपूर्वचैत्रादिव्यक्ति बुद्धौ त्वौत्पचिकीत्वमेवाश्रयणीयम् । श्रुतनिश्रितभेदेन मतिदैविध्योपपादनञ्च ॥

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252