________________
तन मतिज्ञानत्वं श्रुतानयाप्तिः । श्रुतानुसारलाधारणात्म के मानदर्शनात, तत्मानोऽ
मतिज्ञानलक्षणोपदर्शनं तत्र श्रुतानुसारित्वं ल
क्षित र
ASISAMAGES
केवलज्ञानमिति पञ्च प्रकारा ज्ञानस्य ॥ तत्र मतिज्ञानत्वं श्रुताननुसार्यनतिशयितज्ञानत्वं, अवग्रहादिक्रमबदुपयोगजन्यज्ञानत्वं वा, अवध्यादिकमतिशयितमेव, श्रुतं तु श्रुतानुसार्यवेति न तयोरतिव्याप्तिः । श्रुतानुसारित्वं च धारणात्मकपदपदार्थसम्बन्धप्रतिसन्धानजन्यज्ञानत्वं, तेन न सविकल्पकज्ञानसामग्रीमात्रप्रयोज्यपदविषयताशालिनीहापायधारणात्मके मतिज्ञानेन्याप्तिः। ईहादिमतिज्ञानभेदस्य श्रुतज्ञानस्य च साक्षरत्वाविशेषेऽप्ययं घट इत्यपायोत्तरमयं घटनामको न वेति संशयादर्शनात्, तत्तनाम्नोऽप्यपायेन ग्रहणात, तद्धारणोपयोगे 'इदं पदमस्य वाचकं, अयमर्थ एतत्पदस्य वाच्य इति पदपदार्थसम्बन्धग्रहस्यापि धौव्येण तज्जनितश्रुतज्ञानस्यैव श्रुतानुसारित्वव्यवस्थितः । अत एव धारणात्वेन श्रुतहेतुत्वात् “मइपुव्वं सुझं" इत्यनेन श्रुतत्वावच्छेदेन मतिपूर्वत्वविधिः, “न मई सुअपुब्बिया" इत्यनेन च मतित्वसामानाधिकरण्येन श्रुतपूर्वत्वनिषेधोऽभिहितः सङ्गच्छते । कथं तर्हि श्रुतनिश्रिताश्रुतनिश्रितभेदेन मतिज्ञानद्वैविध्याभिधानमिति चेद्, उच्यते-स्वसमानाकारश्रुतज्ञानाहितवासनाप्रबोधसमानकालानत्वे सति श्रुतोपयोगाभावकालीनं श्रुतनिश्रितमवग्रहादिचतुर्भेदं, उक्तवासनाप्रबोधो धारणादाययोपयुज्यते, श्रुतोपयोगाभावश्च मतिज्ञानसामग्रीसम्पादनाय, उक्तवासनाप्रबोधकाले श्रुतज्ञानोपयोगबलाच्छ्तज्ञानस्यैवापत्तेः, मतिज्ञानसामय्याः श्रुतज्ञानोत्पत्तिप्रतिबन्धकत्वेऽपि शाब्देच्छास्थानीयस्य तस्योत्तेजकत्वात् । मतिज्ञानजन्यस्मरणस्य मतिज्ञानत्ववत् श्रुतज्ञानजन्यस्मरणमाप च श्रुतज्ञानमध्य एव परिगणनीयम् । उक्तवासनाप्रबोधासमानकालीनं च मतिज्ञानमौत्पत्तिस्यादिचतुर्भेदम श्रुतनिश्रितमित्यभिप्रायेण द्विधाविभागे दोषाभावः । तदिदमाह महाभाष्यकार:-"पुचि सुअपरिकम्मिय-मइस्स जं संपयं सुपआईअं॥ तं निस्मियमियरं पुण, आणिस्सि मइचउकं तं ॥ १६९ ॥ (ज्ञानार्णव पत्र २५) इति"। अपूर्वचैत्रादिव्यक्ति बुद्धौ त्वौत्पचिकीत्वमेवाश्रयणीयम् ।
श्रुतनिश्रितभेदेन मतिदैविध्योपपादनञ्च ॥