________________
भीज्ञान
R
बिन्दु
प्रकरणम् ॥
॥९
॥
त्वानन्तानुवन्ध्यादिप्रकृतीनां प्रदेशोदये क्षायोपशमिको भावोऽविरुद्धो, न विपाकोदये, तासां सर्वघातिनीस्पेन तद्रसस्पर्धकस्य तथाविधाध्यवसायेनापि देशघातितया परिणमयितुमशक्यत्वाद्, रसस्य देशघातितया परिणामे तादात्म्येन देशघातिन्या हेतुत्वकल्पनात् । विपाकोदयविष्कम्भणं तु तासु सर्वघातिरसस्पर्धकानां क्षायोपशमिकसम्यक्त्वादिलब्ध्यभिधायकसिद्धान्तबलेन क्षयोपशमान्यथानुपपत्त्यैव तथाविधाध्यवसायेन कल्पनीयम् । केवलज्ञानकेवलदर्शनावरणयोस्तु विपाकोदयविष्कम्भा:योग्यत्वे स्वभाव एव शरणमिति प्राञ्चः। हेत्वभावादेव सदभावस्तद्धेतुत्वेन कल्प्यमानेऽध्यवसाये तत्क्षयहेतुत्वकल्पनाया एचौचित्यादिति तु युक्तं, तस्मान्मिथ्यात्वादिप्रकृतीनां विपाकोदये न क्षयोपशमसम्भवः, किं तु प्रदेशोदये । न च सर्वघाति. रसस्पर्धकप्रदेशा अपि सर्वस्वघात्यगुणघातनस्वभावा इति तत्प्रदेशोदयेऽपि कथं क्षायोपशमिकभावसम्भव इति वाच्यम्, तेषां सर्वघातिरसस्पर्धकप्रदेशानामध्यवसायविशेषेण मनाग्मन्दानुभावीकृतविरलवेद्यमानदेशघातिरसस्पर्धकेष्वन्तःप्रवेशिताना यथास्थितस्वबलप्रकटनासमर्थत्वात् । मिथ्यात्वाद्यद्वादशकषायरहितानां शेषमोहनीयप्रकृतीनां तु प्रदेशोदये विपाकोदये वा क्षयोपशमोऽविरुद्धः, तासां देशघातिनीत्वात, तदीयसर्वघातिरसस्य देशघातित्वपरिणामे हेतुश्चारित्रानुगतोऽध्यवसायविशेष एव द्रष्टव्यः, परं ताः प्रकृतयोऽध्रुवोदया इति तद्विपाकोदयाभावे क्षायोपशमिके भावे विजृम्भमाणे प्रदेशोदयवत्योऽपि न ता मनागपि देशघातिन्यः। विपाकोदये तु वर्तमाने क्षायोपशमिकमावसम्भवे मनाग्मालिन्यकारित्वादेशघातिन्यस्ता भवन्तीति सक्षेपः॥ विस्तरार्थिना तु मत्कृतकर्मप्रकृतिविवरणादिविशेषग्रन्था अवलोकनीयाः। उक्ता क्षयोपशमप्रक्रिया । इत्थं च सर्वघातिरसस्पर्धकवन्मतिज्ञानावरणादिक्षयोपशमजनितं मतिश्रुतावधिमनःपर्यायभेदाच्चतुर्विध क्षायोपशमिकं ज्ञानं, पञ्चमं च क्षायिक
ABHA
SABSCASHRECEMP3
मोहनीयप्रकृतिषु क्षयोपशमव्यवस्थोपपादनं क्षयोपपशमप्रक्रि
योपसंहारथ॥ चतुविधं ज्ञानं
क्षायोपशमिकं पंचम च क्षायिकमिति निपंकनं च ॥