________________
पार
CAMERCESCENE
परिणामः कदाचिद्विशिष्टगुणप्रतिपक्या कदाचिव तामन्तरेणैव स्यात्, भवप्रत्ययगुणप्रत्ययभेदेन तस्य द्वैविध्योपदर्शनात । मनःपर्यायजानावरणीयस्य तु विशिष्टसंयमाप्रमादादिप्रतिपचावेव तथास्वभावानामेव बन्धकाले तेषां बन्धनात, चक्षुर्दर्शनावरणादेरपि तत्तदिन्द्रियपर्याप्त्यादिघटितसामग्र्या तथापरिणामः । मतिश्रुतावरणाचक्षुदेशनावरणान्तरायप्रकृतीनां तु
वनाश सदैव देशघातिनामेव रसस्पर्धकानामुदयो न सर्वघातिनां, ततः सदैव तासामौदयिकक्षायोपशमिको भावी सम्मिश्री प्राप्येते. न केवल औदयिक इति उक्तं पञ्चसङ्ग्रहमूलटीकायाम् । एतच्च तासां सर्वघातिरसस्पर्धेकानि येन तेनाध्यवसायेन देशघातीनि कर्तुं शक्यन्ते इत्यभ्युपगमे सति उपपद्यते, अन्यथा बन्धोपनीतानां मतिज्ञानावरणादिदेशघातिरसस्पर्धकानामानिवृत्तिबादराद्धायाः संख्येयेषु भागेषु गतेष्वेव सम्भवाचदर्वाग् मतिज्ञानाद्यभावप्रसङ्गर, तदभावे च तदललभ्यतदवस्थालाभानु-1 पपत्तिरित्यन्योऽन्याश्रयापातेन मतिज्ञानादीनां मूलत एवाभावप्रसङ्गात् । एवं मतिश्रुताज्ञानाचक्षुर्दर्शनादीनामपि क्षायोपशमिकत्वेन भणनात्सर्वघातिरसस्पर्धकोदये तदलाभादेशघातिरसस्पर्धकानां चार्वागबन्धादध्यवसायमात्रेण सर्वघातिनो देशघातित्वपरिणामानभ्युपगमे सर्वजीवानां तल्लाभानुपपत्तिरिति भावनीयम् । ननु यदि येन तेनाध्यवसायेनोक्तरसस्पर्धकानां सर्वघातिनां देशपतितया परिणामस्तदाग्दिशाय । तद्वन्ध एव किं प्रयोजनमिति चेत्, तत्कि प्रयोजनक्षतिभिया सामग्री कार्य नायतीति वक्तुमध्यवसितोऽसि । एवं हि पूर्णे प्रयोजने दृढदण्डनुनं चक्रं न भ्राम्येत, तस्मात्प्रकृते हेतुसमाजादेव सर्वघातिरसस्पर्धकबन्धौपयिकाध्यवसायेन तद्धन्धे तत्तदध्यवसायेन सर्वदा तद्देशघातित्वपरिणामे च बाधकामाकः। तदेवं ज्ञानावरणदर्शनावरणान्तरायाणां विपाकोदयेऽपि क्षयोपशमोऽविरुद्ध इति स्थितम् । मोहनीयस्य तु मिथ्या
क्षयोपशम
प्रक्रियायां चमत्यावर
रणादीनां सर्वघातिर. सस्पर्धकान्यपिदेशघातितयैवोपभु ज्यन्ते तत्र च परकृतारिका तत्परिहारश्च ॥