________________
मीज्ञान
शुभप्रकृतीनां | नकस्थानरसवत्त्वमि
प्रकरणम् ॥
॥८९॥
त्युपपादनं
RUARY
मिध्यादृष्टौ नरकगतिप्रायोग्या वैक्रियतेजसाद्याः शुभप्रकृतयो बन्धमायान्ति, तासामपि तथास्वाभाव्याज्जघन्यतोऽपि द्विस्था-2 नक एव रसो बन्धमायाति नैकस्थानक इति ध्येयम् । ननूत्कृष्टस्थितिमात्रं सक्लेशोत्कर्षेण भवति, ततो येरेवाऽध्यवसायैः शुभप्रकृतीनामुत्कृष्टा स्थितिर्भवति तैरेवैकस्थानकोऽपि रसः किं न स्यादिति चेत्, उच्यते-इह हि प्रथमस्थितेरारभ्य समयसमयवृद्ध्या संख्येयाः स्थितिविशेषा भवन्ति, एकैकस्यां च स्थितावसंख्येया रसस्पर्धकसङ्घातविशेषाः, तत उत्कृष्टस्थितौ बध्यमानायां प्रतिस्थितिविशेषमसंख्यया ये रसस्पर्धकसङ्घातविशेषास्ते तावन्तो द्विस्थानकरसस्यैव घटन्ते नैकस्थानकस्येति न शुभप्रकतानामुत्कृष्टस्थितिबन्धेऽप्येकस्थानकरसक्न्धः। उक्तंच-"(पंचसंग्रह)उकोसठिईअज्झव-साणेहिं एगठाणिओहोइ। सुभिआणतन जंठिई, असंखगुणिआ उ अणुभागा॥३-६४ ॥ इति" । एवं स्थिते देशघातिनामवधिज्ञानावरणादीनां सर्वघातिरसस्पर्धकेषु विशद्धाध्यवसायतो देशघातितया परिणमनेन निहतेषु, देशघातिरसस्पर्धकेषु चातिस्निग्धेष्वल्परसीकृतेषु, तदन्तर्गतकतिपयरसस्पर्धकभागस्योदयावलिकाप्रविष्टस्य क्षये, शेषस्य च विपाकोदयविष्कम्भलक्षणे उपशमे, जीवस्यावधिमनःपर्यायज्ञानचक्षु दर्शनादयो गुणाः क्षायोपशमिकाः प्रादुर्भवन्ति । तदुक्तम्-"णिहएमु सव्वघाई-रसेसु फडेसु देसघाईणं । जीवस्स गुणा जाय-ति ओहीमणचरकुमाईआ।॥३-३०॥" निहतेषु देशघातितया परिणमितेषु ॥ तदावधिज्ञानावरणादीनां कतिपयदेशघातिरसस्पर्धकक्षयोपशमात कतिपयदेशघातिरसस्पर्धकानां चोदयात् क्षयोपशमानुविद्ध औदयिको भावः प्रवर्तते, अत एवोदीयमानांशक्षयोपशमवृद्ध्या वर्धमानावधिज्ञानोपपत्तिः । यदा चावधिज्ञानाऽऽचरणादीनां सर्वघातीनि रसस्पर्धकानि विपाकोदयमागतानि भवन्ति तदा तद्विषय औदयिको भावः केवलः प्रवर्तते । केबलमवधिज्ञानावरणीयसर्वघातिरसस्पर्धकानां देशघातितया
तत्संबादिपंचसङ्ग्रहग्रन्थपाठः, क्षयोपशमविचारश्च ॥
KASHREE
२
॥