SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ मीज्ञानबिन्दु प्रकरणम् ॥ ॥ ८७ ॥ || इयता ज्ञानार्णवग्रन्थविभागेन मतिज्ञानप्ररूपणमप्यवशिष्टमिति मुतादीनां तत्वबुभुत्सापूरणाय पूज्यप्रणीतमेव तदीयविषयविन्दुरूपत्वान्नाम्ना श्री ज्ञान बिन्दुप्रकरणमन्यत्र पूर्व द्विधा मुद्रितमध्येत संलग्नता सत्यापनायेह प्रकाश्यते ॥ ॥ अथ श्रीज्ञानबिन्दु प्रकरणम् ॥ ऐन्द्रस्तोमनतं नत्वा, वीरं तत्त्वार्थदेशिनम् ॥ ज्ञानविन्दुः श्रुताम्भोधेः सम्यगुद्धियते मया ॥ १ ॥ तत्र ज्ञानं तावदात्मनः स्वपरावभासकोऽसाधारणो गुणः, स चाभ्रपटलविनिर्मुक्तस्य भास्वत इव निरस्तसमस्तावरणस्य जीवस्य स्वभावभूतः केवलज्ञानव्यपदेशं लभते । तदाहुराचार्या :- " केवलनाणमणतं, जीवसरूवं तयं निरावरणं ॥” इति । तं च स्वभावं यद्यपि सर्वंघातिकेवलज्ञानावरणं कारस्र्त्स्न्येनैवावरीतुं व्याप्रियते, तथापि तस्यानन्ततमो भागो नित्याऽनावृत एवावतिष्ठते, तथास्वाभाव्यात् || (नन्दी सूत्र ) 'सब्वजीवाणं पि य णं अवखरस्स अनंततमो भागो णिच्चुग्घाडिओ चिट्ठह, सोविअ जइ आवरिज्जा, तेणं जीवो अजीवत्तणं पाविजा " इति पारमर्षप्रामाण्यात् । अयं च स्वभावः केवलज्ञानावरणावृतस्य जीवस्य घनपटलच्छन्नस्य खेखि मन्दप्रकाश इत्युच्यते । तत्र हेतुः केवलज्ञानावरणमेव । केवलज्ञानव्यावृत्तज्ञानत्वव्याप्यजातिविशेपावच्छिन्ने तद्धेतुत्वस्य शास्त्रार्थत्वात् । अत एव न मतिज्ञानावरणक्षयादिनापि मतिज्ञानाद्युत्पादनप्रसङ्गः । अत एव चास्य विभावगुणत्वमिति प्रसिद्धिः । स्पष्टप्रकाश प्रतिबन्ध के मन्दप्रकाशजनकत्वमनुत्कटे चक्षुराद्यावरणे वस्त्रादावेव दृष्टं न तूत्कटे यादाविति कथमत्रैवमिति चेत्, न, अभ्राद्यावरणे उत्कटे उभयस्य दर्शनात्, अत एवात्र (नन्दी ) "सुट्ठ वि मेघसमुदए, होंति पभा चंदराणं ||" इत्येव दृष्टान्तितं पारमर्षे, अत्यावृतेऽपि चन्द्रसूर्यादौ दिनरजनीविभागहेत्वल्पप्रकाशवञ्जीवेऽप्यन्यव्यावर्तकचै | मङ्गलं ज्ञान निरूपणे के वलज्ञानस्व रूपोपदर्श.. नं, जीवस्व-भावस्य ज्ञानस्यानन्ततमभागो नि त्यानावृत ए |वेत्यस्य व्य. वस्थापनम् । ॥ ८७ ॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy