________________
PRASTRIBE
॥४०४॥ आएसोत्ति व सुचं, सुओबलद्धेसु तस्स मइनाणं । पसरइ तब्भावणया, विणा वि सुत्तानुसारेण ॥४०५॥" [आदेश इतिप्रकार ओघादेशेन सर्वद्रव्याणि ।। धर्मास्तिकायिकादीनि जानाति न तु सर्वभेदेन ॥ क्षेत्रं लोकालोकं कालं सर्वाद्धामथवा त्रिविधमिति ॥ पञ्चौदयिकादीन्भावान्यज्ज्ञेयमियन् ।। आदेश इति वा सूत्रं श्रुतोपलब्धेषु तस्य मतिज्ञानं ॥ प्रसरति तद्भावनया विनापि सूत्रानुसारेण।। तदेवं मतिज्ञानस्य तवभेदपर्यायनिरूपणं द्रव्यादिविषयप्ररूपणं च प्रदर्शितम् ॥ अथ सत्पदप्ररूपणतादिभिर्नवभिरनुयोगद्वारैर्मतिज्ञानं विचार्यते, अनुयोगद्वाराणि च गत्यादिमार्गणाभेदेषु विधीयन्ते, अतः पूर्व द्वाराणि मार्गणाभेदाश्चोच्यन्ते तत्र सत्पदप्ररूपणता, द्रव्यप्रमाणं, क्षेत्रं, स्पर्शना, काला, अन्तरं, भागः, भावः, अल्पबहुत्वं चीत नवानुयोगद्वाराणि, अनुयोगो व्याख्यानं तस्य द्वाराणीव द्वाराणि व्याख्यानपुरप्रवेशमार्गाः, मार्गणाश्च 'गइ इंदिय काये' इत्यादिगाथोक्ताः, सत्पदायनुयोग. द्वारावतारस्थानानि, एतेषां स्वरूपं प्रतिपद्यमानप्रतिपन्नजीवानां मार्गणाविचारोऽनुयोगद्वारविचारश्च महाभाष्यतवृत्त्यादिभ्यो विशेषजिज्ञासुनाऽवधेयः । तत्र महाभाष्ये षडुत्तरचतुःशततमगाथात आरभ्य त्रिचत्वारिंशदाधिकचतुःशततमी यावदष्टात्रिंशता गाथाभिस्सत्पदप्ररूपणतादिभिरनुयोगद्वारैमतिज्ञानं चिन्तितम्॥ ततः षट्पष्टयुत्तरपञ्चशततमी गाथां यावत्रयोविंशत्य:धिकशतसंख्यगाथाभिः श्रुतज्ञानं निरूपितम् ॥ ततोऽष्टोत्तराष्टशततमी गाथां यावद्विचत्वारिंशदधिकद्विशतप्रमाणाभिर्गाथाभिरवधिज्ञानं प्ररूपितम् ॥ ततो द्वाविंशत्युत्तराष्टशततमी गाथा यावच्चतुर्दशभिर्गाथाभिर्मन:पर्यायज्ञानप्ररूपणा कृता ॥ ततः षट्त्रिंशदुत्तराष्टशततमी गाथां यावच्चतुर्दशभिर्गाथामिः केवलज्ञानं निरूपितम् ॥] ॥ न्यायविशारद-न्यावाचार्य-महोपाध्यायश्रीयशोविजयगणिप्रणीतं त्रुटितावस्थोपलब्धं श्रीज्ञानार्णवप्रकरणं समाप्तम्॥
SAHARASHASARANEEA
सत्पदप्ररूपणताद्यनुयोगद्वारैतिज्ञानप्ररूपणस्य श्रुत
ज्ञानादीनां चतुर्णा प्रतिपत्तयेमहा
भाष्यनिरूपितप्रतिनियतगाथा
नां च संसू
चनम्