________________
सविवरण श्रीज्ञाना
र्णव
प्रकरणम् ।।
॥ ८६ ॥
आदेशेन सर्व द्रव्यादि चतुर्विधं जानाति ।।] ननु द्रव्यादिचतुर्विधमाभिनिबोधि कज्ञानी जानातीत्युक्तं तत्केन स्वरूपेण, न च किंज्ञानस्य ज्ञातव्यप्रकार भेदोऽस्तीति स्वरूपं पृच्छसीति वाच्यं ज्ञातव्यप्रकारस्य द्वैविध्यात्, तथाहि, ओघादेशो विभागादेशश्च सामान्यप्रकारो विशेषप्रकारचेति तदर्थः, अतः केन स्वरूपेणेति प्रश्नः, अत्रोत्तरं, ओघादेशेन सामान्यप्रकारेण, तथाहि द्रव्य सामान्येन असंख्येयप्रदेशात्मको लोकव्यापको मूर्तः प्राणिनां पुद्गलानां च गत्युपष्टम्भन हेतुर्धर्मास्तिकाय इत्यादिना सामान्यप्रकारेण कियत्पर्यायविशिष्टानि षडपि धर्मास्तिकायादीनि सर्वद्रव्याणि सामान्येनाभिनिवोधिकज्ञानी जानातीति तचम विभागादेशेन विशेष प्रकारेण पुनः सर्वैः पर्यायैः केवलिष्टैरवच्छिन्नानि सर्वद्रव्याणि न जानाति केवलज्ञानावसेयत्वात्सर्व पर्यायाणामिति, एवं क्षेत्रमपि सर्वसामा न्यतः कियत्पर्यायावच्छिन्नं सामान्यादेशेन जानाति न विशेषादेशेन सर्व पर्यायविशिष्टं, कालमपि सर्वाद्वा रूपं अतीतानागतवर्तमान मे दतस्त्रिविधं वेत्यादिरूपेण, भावतस्तु सामान्येन सर्वभावानामनन्तभागं, औदयिक क्षायि कौनशमि कक्षायो समिकारिणामिहान्त्रा पञ्चभावान्सामान्यादेशेन जानाति न परतः। एतावत एवाभिनिवोधिकविषयत्वात् ।। इह क्षेत्रकालयो। सामान्येन द्रव्यान्तर्गतत्वेSपि भेदेन रूढत्वात्पृथगुपादनं कृत ।। सूत्रार्थत्वे वाऽऽदेशस्य सूत्रादेशतः श्रुतोपलब्धेष्वर्थेषु सर्वद्रव्यादिविषयं मतिज्ञानं प्रवर्तते । न च तोपलब्धेष्वर्थेषु ग्राहकत्वेन प्रवृत्तस्य ज्ञानस्य श्रुतज्ञानत्वमेव न्याय्यं न मतिज्ञानत्वमिति साम्प्रतम्, इह पूर्व परिकर्मितमतेश्रु रपि साम्प्रतमाभिनिबोधिकज्ञानस्य श्रुतोपयोगमृते तदुपलब्धेष्वर्थेषु तद्वासनामात्रेणैव प्रवृत्तत्वात् यदवादि, “पुत्रि सुयपरिकम्मिय-मइस्स जं संपयं सुयाईये" इत्यादि, सर्वमप्येतद्द्भाष्यकारोऽप्याह - “आएसोत्ति पगारो, ओहादेसेण सन्दव्वाई || धम्मत्थि - काइयाई, जाण न उ सव्वभेएणं ॥ ४०३ || खेतं लोगालोगं, कालं सव्वद्धमहव तिविदं ति ।। पंचोदइयाईए, भावे जं नेयमेवइयं
(योजित:
पाठः)
द्रव्यादि
चतुर्विधमा
भिनिबोधि
कज्ञानी
सामान्यप्र
कारेण सर्वं
जानाति न विशेषप्रका -
रेण सर्वमि ति प्रपञ्च
तम् । ॥ ८६ ॥