SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ तन्यमात्राविर्भाव आवश्यक इति परमार्थः । एकत्र कथमावृत्तानावृतत्वमिति त्वर्पितद्रव्यपर्यायात्मना भेदाभेदवादेन निर्लोठनीयम् । ये तु चिन्मात्राश्रयविषयमज्ञानमिति विवरणाचार्यमताश्रयिणो वेदान्तिनस्तेषामेकान्तवादिनां महत्यनुपपत्तिरेव, अज्ञानाश्रयत्वेनानावृतं चैतन्यं यत्तदेव तद्विषयतयाऽवृत्तमिति विरोधात् । न चाऽखण्डत्वाद्यज्ञानविषयः, चैतन्यं त्वाश्रय इत्यविरोधः, अखण्डत्वादेश्चिद्रपत्वे भासमानस्यावृतत्वायोगात्, अचिद्रूपत्वे च जडे आवरणायोगात् । कल्पितभेदेनाखण्डत्वादि विषय इति चेत्, न, भिन्नावरणे चैतन्यानावरणात् । परमार्थतो नास्त्येवावरणं चैतन्ये, कल्पितं तु शुक्तौ रजतमिव ततत्राविरुद्धं, तेनैव चचिवखण्डत्वादिभेदकल्पना 'चैतन्यं स्फुरति नाखण्डत्वाद्' इत्येवंरूपाऽऽधीयमाना न विरुद्धेति चेत्, न, कल्पितेन रजतेन रजतकार्य वत्कल्पितेनावरणेनावरण कार्यायोगात् । 'अहं मां न जानामि' इत्यनुभव एव कर्मत्वांशे आवरणविषयकः कल्पितस्यापि तस्य कार्यकारित्वमाचष्टे, अज्ञानरूपक्रियाजन्यस्यातिशयस्यावरणरूपस्यैव प्रकृते कर्मत्वात्मकत्वात्, अत एवास्य साक्षिप्रत्यक्षत्वेन स्वगोचरप्रमाणापेक्षया न निवृत्तिप्रसङ्ग इति चेत्, न, 'मां न जानामि' इत्यस्य विशेषज्ञानाभावविषयत्वात्, अन्यथा मां जानामीत्यनेन विरोधात् दृष्टश्वेत्थं 'न किमपि जानामि' इत्यादिर्मध्यस्थानां प्रयोगः । किश्व विशिष्टाविशिष्टयोर्भेदाभेदाभ्युपगमं विनाऽखण्डत्वादिविशिष्ट चैतन्यज्ञानेन विशिष्टावरण निवृत्तावपि शुद्ध चैतन्य प्रकाशप्रसङ्गः, विशिष्टस्य कल्पितत्वादविशिष्टस्य चाननुभवात्, महावाक्यस्य निर्घर्म कब्रह्मविषयत्वं चाग्रे निर्लोठयिष्यामः । एतेन 'जीवाश्रयं ब्रह्मविषयं चाज्ञानम्' इति वाचस्पतिमिश्राभ्युपगमोऽपि निरस्तः । जीवब्रह्मणोरपि कल्पितभेदत्वात्, व्यावहारिकभेदेऽपि जीवनिष्ठाविद्यया तत्रैव प्रपश्चोत्पत्तिप्रसङ्गात् । न चाहङ्कारादिप्रपञ्चोत्पत्तिस्तत्रेष्ठैव, आकाशादिप्रपञ्चोत्पत्तिस्तु विषयपक्षपातिन्या अविद्याया ईश्वरे स ज्ञानस्य कथ - त्वानावृतत्वं, चिन्मात्रा श्रयविषयम ज्ञानमिति | विवरणाचामतस्य जी. वाश्रयं ब्रह्मविषयवा ज्ञानमि तिवाचस्प | तिमिश्रमत स्य च खण्ड नम् ।
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy