SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ भीज्ञानबिन्दु प्रकरणम् ।। 11 66 11 वेन तत्रैव युक्तेत्यपि साम्प्रतम्, अज्ञातब्रह्मण एवैतन्मते ईश्वरत्वेऽप्यज्ञातशुक्ते रजतोपादानत्ववत्तस्थाकाशादिप्रपञ्चोपादानत्वाभिधानासम्भवात्, रजतस्थले हीदमंशावच्छेदेन रजताभावाऽज्ञानम्, इदमंशावच्छेदेन रजतोत्पादकामेति त्वया क्ल शुक्त्यज्ञानं त्वदूरविप्रकर्षेण तथा, प्रकृते तु ब्रह्मण्यवच्छेदासम्भवान्न किञ्चिदेतत्, अवच्छेदानियमेन हेतुत्वे चाह ङ्कारादेरपीश्वरे उत्पत्तिप्रसङ्गादिति किमतिप्रसङ्गेन तस्मादनेकान्तवादाश्रयादेव केवलज्ञानावरणेनावृतोऽप्यनन्ततमभागावशिष्टोऽनावृत एव ज्ञानस्वभावः सामान्यत एकोऽप्यनन्तपर्यायकीमरितमूर्तिर्मन्दप्रकाशनामधेयो नानुपपन्नः, स चापान्तरालावा स्थितमतिज्ञानाद्यावरणक्षयोपशमभेदसम्पादितं नानात्वं भजते, घनपटलाच्छन्नरवेर्मन्दप्रकाश इवान्तरालस्थकट कुट्याद्यावरण विवरप्रवेशात् ॥ इत्थं च जन्मादिपर्यायवदात्मस्वभावत्वेऽपि मतिज्ञानादिरूपमन्दप्रकाशस्योपाधिभेदसम्पादितसत्ताकत्वेनोपाधिविगमे तद्विगमसम्भवान्न कैवल्यस्वभावानुपपत्तिरिति महाभाष्यकारः, अत एव द्वितीयापूर्वकरणे तात्रिकधर्म सन्न्यासला क्षायोपशमिकाः क्षमादिधर्मा अप्यपगच्छन्तीति तत्र तत्र ( योगदृष्टिसमुच्चयादौ ) हरिभद्राचार्यैर्निरूपितम् । निरूपितं च योगयलकर्मनिर्जरणहेतुफल सम्बन्धनियतसत्ताकस्य क्षायिकस्यापि चारित्रधर्मस्य मुक्तावनवस्थानम् । न च वक्तव्यं केवलज्ञानावरणेन बलीयसावरीतुमशक्यस्यानन्ततमभागस्य दुर्बलेन मतिज्ञानावरणादिना नावरणसम्भव इति, कर्मणः स्वावार्थावारकतायां सर्वघा तिरसस्पर्ध कोदयस्यैव बलत्वात्, तस्य च मतिज्ञानावरणादिप्रकृ तिष्वप्य विशिष्टत्वात् । कथं तर्हि क्षयोपशम इतिचेत्, अत्रेयमर्हन्मतोपनिषद्वेदिनां प्रक्रिया - इह हि कर्मणां प्रत्येकमनन्तानन्तानि रसस्पर्धकानि भवन्ति, तत्र केवलज्ञानावरण - केवलदर्शनावरणा-ऽद्य द्वादशकपाय - मिथ्यात्वे - निद्रलक्षणानां विंशतेः प्रकृतीनां सर्वघातिनीनां सर्वाण्यपि रसस्पर्धका नि 1 अनेकान्त वाद एव ज्ञा नस्वभाव स्यावृतत्वा नावृतस्वोप पत्तिः, मन्द प्रकाशस्य तस्य नाना त्वं क्षयोपशमप्रक्रियोप क्रमश्च ॥ ॥ ८८ ॥
SR No.600384
Book TitleSavivaran Gyanarnav Prakaranam Gyanbindu Prakaran
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1946
Total Pages252
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy