Book Title: Savchurikam Bhashyatraya Author(s): Unknown Publisher: ZZZ Unknown View full book textPage 3
________________ चै.वं.भाष्य सावचूरि० चतस्रः स्तुतयोऽत्र संपूर्णायां चूलिकारूपा अधिकृततीर्थकृत् १ समस्ताहत् २ प्रवचन ३ प्रवचनभक्तदेवताविषया| ४ दातव्याः। निमित्तानि प्रयोजनानि फलानीत्यर्थः । अयमर्थः-संपूर्णायामस्यां क्रियमाणायां पापक्षपणादीन्यष्टौ |फलानि स्युः । यदत्रेर्यापथिक्या अपि फलमुपदर्शितं, तदीर्यापथिकीप्रतिक्रमणपूर्विकैव परिपूर्णचैत्यवन्दनेति प्रतिपादनार्थम् । एवं तद्धेतुप्रमाणवर्णादीनामपि निरूपणे कारणं वाच्यम् । 'हेतवश्च' फलसाधनयोग्यानि कारणानि । 'आकारा' अपवादाः कायोत्सर्गकरणे ज्ञातव्याः। 'स्तोत्रं' चतुःश्लोकादिरूपं भणनीयम् । यदेकश्लोकादिकं चैत्यवन्दनायाः पूर्व भण्यते, तन्मङ्गलवृत्तापरपर्याया नमस्कारा इत्युच्यन्ते । यत्तु कायोत्सर्गानन्तरं भण्यते, तत् स्तुतय इति रूढाः । चैत्यवन्दनापर्यन्ते च स्तोत्रम् । अयमेव चैतेषां परस्परं विशेषः; अन्यथा भगवद्गुणोत्कीर्तनरूपतया सर्वेषामेकस्वरूपत्वापत्तेः। सप्तवेला वन्दना कार्या ॥४॥ दस आसार्येणचाओ, सवे चिइवंदणाइ ठाणाई । चउवीसदुवारेहि, दुसहस्सा हुँति चउसयरा ॥५॥ __ आद्य द्वारे ३०, द्वितीये ५, तृतीये २, चतुर्थे ३, पञ्चमे ३, षष्ठे १, सप्तमे १, अष्टमे १६४७, नवमे १८१, दशमे ९७, एकादशे ५, द्वादशे १२, त्रयोदशे ४, चतुर्दशे १, पञ्चदशे ४, षोडशे ४, सप्तदशे ८, अष्टादशे १२, एकोनविंशतितमे १६, विंशतितमे १९,एकविंशतितमे १, द्वाविंशतितमे १,त्रयोविंशतितमे ७,चतुर्विंशतितमे १०,सर्वाणि मीलितानि २०७४॥५॥ _1 क- 'जिनगुणकी-12 क-घ- एकरूपत्वापत्तेः' । 3 ख-'एवं' ॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 72