Book Title: Savchurikam Bhashyatraya
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 2
________________ चै.वं.भाष्य सावचूरि० ACARALASS द्विदिक् । प्रणिपातः प्रणामः । वर्णा अत्र चैत्यवन्दनाधिकारे नमस्कारक्षमाश्रमणादिषु नवसु स्थानेष्वपुनरुक्ता ध्रुव- भणनीयाश्च १६४७ ॥२॥ . इगसीइसयंतु पर्या, सगनउई संपैया उ पण दंडा।बार अहिगीर चउ वंदणिजे सरणिर्जे चउह जिणीं॥३॥ | एकाशीत्यधिकशतं पदानि नमस्कारादिस्थानसप्तके । यद्यपि 'क्षमाश्रमण जे य अईया' इत्यादिगतान्यतिरिक्तान्यपि पदान्यप्यत्र सन्ति, तथापि पूर्वबहुश्रुतैः संपदादिकं किमपि कारणान्तरमधिकृत्यैतावन्त्येव पदानि स्वस्वभाष्यादिषूक्तानीत्यस्माभिरप्येतावन्त्येव तान्युक्तानि । एवमन्यत्रापि न्यूनाधिकत्वे कारणं वाच्यम् । संपदोऽर्थविश्रामस्थानानि । नामस्तवादिषु प्रायो विशेषार्थपरिच्छेदाभावेऽपि संगतपदत्वेन "पायसमा ऊसासा" इतिवचनाच्च सामान्येन संपदो विश्रामस्थानानि । यथोक्तमुद्राभिरस्खलितं भण्यमानत्वाद् दण्डा इव दण्डाः सरला इत्यर्थः। ते चात्र पश्च शक्रस्तवादयः । यदत्र वन्दनाया एव दण्डकाः परिज्ञापिता नान्येषां तदस्या एवात्र मुख्यतया प्रस्तुतत्वात् । एवमधिकारादिष्वपि वाच्यम् । अधिकारा भावाईदाद्यालम्बनविशेषस्थानानि, ते च १२ दण्डकपञ्चके स्युः। चत्वारो जिनादयोऽत्र 'वन्दनीया' प्रणामार्चाद्यर्हाः। स्मरणीयाः' क्षुद्रोपद्रवविद्रावणादिकृते तत्तद्गुणानुचिन्तनादिनोपबृंहणीयाः स्तवनीया इत्यर्थः। तेच सम्यग्दृष्टयो देवा ज्ञेयाः,तेषामेव स्मरणाघहत्वात् । अर्हदादीनां तु वन्दनीयत्वेन प्रागुक्तत्वात्। जिनाश्चतुर्धा नामजिनादिभेदेन ॥३॥ चउरो थुई निमित्त? बार हेऊँ असोल आगारा। गुणवीस दोसै उस्सग्गाणं धुत्तं च सगवेली ॥४॥ 1 अ-क-च-'कं शतं'। 2 अ-क-'माणु' ॥ ॥२॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 72