Book Title: Saptabhangi Tarangini
Author(s): Vimaldas, Pandit Thakurprasad Sharma
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । एवमेव व्यस्तौ क्रमयोजितौ समस्तौ च सह योजितौ द्रव्यपायौ समाश्रित्य स्यादस्ति नास्ति चावक्तव्य एव घट इति सप्तमभङ्गप्रवृत्तिरुपदर्शिता । तत्र पार्थक्येन द्रव्यपर्याययोः क्रमशो योजनया चास्तित्वनास्तित्वाश्रयता घटस्य, समस्तसहार्पितयोजनया चावक्तव्यताश्रयता । लक्षणनिर्वचनत्वसमन्वयादिकं च ग्रन्थव्याख्याऽवसरे विस्तरेणोक्तं तत एवावगन्तव्यमिति संक्षेपः शम् । __ सप्तभङ्गान् व्याख्यायैकान्ततो द्रव्यपर्याया वक्तव्यवादिनां सांख्यबौद्धादीनां खण्डनमुपन्यस्तम् सर्वथा द्रव्यस्य केवलस्य पर्यायस्यावक्तव्यत्वस्य वाऽप्रतीतेः । एतदने चानेकान्ते सप्तभङ्गीप्रवृत्त्यप्रवृत्तिभ्यां दोषमुपन्यस्तम् । प्रमाणनयार्पणभेदाच समाहितम् । एतत्प्रसङ्गत एव सम्यगेकान्तो मिथ्यैकान्तः सम्यगनेकान्तो मिथ्यानेकान्त इति रीत्यैकान्तनैकान्तयो विध्यं प्रतिपादितम् । तत्रापि स्यादेकान्तः स्यादनेकान्तः स्यादुभयः स्यादवक्तव्य इत्यादि रूपेण सप्तभङ्गी योजितेति ध्येयम् । अनयैव दिशा नित्यत्वानित्यत्वैकत्वानेकत्वादिधर्मेषु चैवमेवमियं सप्तभङ्गी योजनीयेत्यभिहितम् ।। अथाग्रे सत्तासामान्यस्यापि निखिलवस्तुव्यापिनोऽनङ्गीकारे च सर्व वस्तुजातं स्यादेकं स्यादनेकमिति कथनाऽनुपपत्तिः नित्यैकस्थायिरूपेण सत्सामान्यस्य जैनसिद्धान्तेऽभावादिति शङ्कितम् । तत्तद्व्यक्त्यात्मनासत्वस्यानेकत्वेऽपि खरूपेण तस्यैकत्वस्वीकरणात्समाहितम् । एवमेव अयं स्याज्जीवः स्यादजीवः इति मूलभङ्गद्वयम् । तत्रोपयोगात्मना अयं जीवः प्रमेयत्वाद्यात्मना चायजीवः इत्यादिरूपा व्यवस्था प्रदर्शिता। अत्र स्वामिभट्टाकलङ्कदेवानां वचनमपि प्रमाणतयोपन्यस्तम् । यथा,: प्रमेयत्वादिभिर्धर्मरचिदात्मा चिदात्मकः । ज्ञानदर्शनतस्तस्मान्चेतनाऽचेतनात्मकः ॥ १॥ इति. अथाग्रे तदेव नित्यं तदेवानित्यं तदेवैकम् तदेवानेकम् स एव जीवः स एवाजीवः इत्यादि रूपनिरूपणादनेकान्तवादश्छलमात्रमित्याशङ्कय घृतादिलक्षणाभावाद् वस्तुनश्च तादृशखभाव इति रीत्या समाहितम् । एवमेव संशयादिलक्षणाभावात्संशयादिजनकमपि नानेकान्तवाद इति समाहितम् ।। अथाग्रे च विरोधवैयधिकरण्यानवस्थासंकरव्यतिकरसंशयाप्रतिपत्त्यभावरूपा अष्टौ दोषा अनेकान्तवादे राय प्रकृते विरोधादयो न सन्ति विरोधो हि वस्त्वनुपलम्भसाध्यः कथंचित्प्रतीयमाने वस्तुनि खरूपाद्यपेक्षया विवक्षितयोः सत्वासत्वयोर्नास्ति विरोधः इत्यादि युक्त्या वध्यघातकभावः, सहानवस्थितिः, प्रतिबद्धयप्रतिबन्धकः भावश्चेति त्रिविधविरोधमध्ये कस्याप्यत्रानेकान्तवादेस्तित्वाभाव इति रीत्या च समाहितम्। अनयैव रीत्या सत्वासत्वयोः प्रधानगुणभावेन सर्वत्र प्रतीतेवैयधिकरण्यादिदोषा अपि निरस्ताः । , अग्रे चानेकान्तवादे सांख्यादिवादिनामानुकूल्यं प्रदर्शितम् । सांख्यास्तावत्सत्वतमोरजसां साम्यावस्थाप्रधानमिति वदन्तोऽन्योन्यविरोधिधर्माणामेकत्र सम्मेलनेनानेकान्तवादं स्वीचक्रुः । नैयायिका अपि द्रव्यत्वादिकं सामान्य विशेषरूपमङ्गीकुर्वन्तोऽनेकान्तवादे सम्मतिमददन् । सौगता अपि मेचक (मणिविशेष) ज्ञानमेकमनेकाकारं कथयन्तोऽनेकान्तवादं स्वीचक्रुरित्यादि रीत्या चार्वाकमीमांसादीनामपि खमतानुकूल्यं प्रदर्शितम् । अस्य च ग्रन्थस्यार्यभाषाऽनुवादकरणे जैनवंशाऽवतंसश्रीश्रेष्टिवर्य्यरेवाशंकरजगजीवनमहाशयसम्बधिश्रीरायचन्द्रजैनशास्त्रमालाप्रबन्धकर्ता श्रीमनसुखलालरविजीभाईमहाशयेनाज्ञप्तोऽहम् । विशिष्टविदुषां सविधे चेयं सुभृशं विज्ञप्तिर्यत्सति प्रमादे क्षन्तव्या गा भषेयमिति शम् । विदुषां चरणसरोरुहसेवी,: प्रयागमण्डलान्तर्गतहरिपुरग्रामनिवासी मुरादाबादस्थगवर्णमेण्टनार्मलपाठशालाध्यापकः महामहोपाध्याय श्री ६ दामोदरशास्त्रिणामन्तेवासी आचार्योपाधिधारिठाकुरप्रसादशा द्विवेदी। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 98