Book Title: Saptabhangi Tarangini
Author(s): Vimaldas, Pandit Thakurprasad Sharma
Publisher: Nirnaysagar Yantralaya Mumbai

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अत्रानेकान्तवादे च सर्व वस्तुजातमनेकान्तात्मकमस्तीति वरूपादिभिर्घटस्यास्तित्वमेव नत्वनिष्टासत्वादिकमितिबोधयितुमवधारणार्थकैवकारप्रयोगः स्यादस्त्येव घट इत्यादिरूपेणैतत्खण्डनमण्डनप्रकारश्च सुविस्तरमाचार्येण प्रदर्शितम् । निपातानां च द्योतकवाचकत्वेनोभयात्मकता च प्रदर्शिता । बौद्धाश्चान्यव्यावृत्तिरेव सर्वशब्दवाच्यमित्यवधारणार्थकैवशब्दाभावेपि पररूपादिना व्यावृत्तिः खत एव सिद्धेत्याशङ्कितं तत्र विधिमुखेनैव सर्वत्र शाब्दबोधप्रणाल्या अनुभवगोचरत्वेनानवस्थादोषसद्भावाच न तन्मतं सङ्गतमिति प्रत्याख्यातम् । तथाविधविचारानेकान्ताद्यनेकार्थसंभवेऽपि प्रकृतवस्तुनोऽनेकान्तखरूपप्रदर्शनार्थम् स्यादस्त्येव घट इत्यादिभङ्गेषु तिङन्तप्रतिरूपकनिपातात्मकस्याच्छब्दप्रयोगः कृतः स चानेकान्तवादेऽप्रौढविनेयानां सौकर्येण प्रतिपत्त्यर्थे प्रौढविनेयानां तु वस्तुनोऽनेकान्तस्वभावेन स्याच्छब्दप्रयोगमन्तरापि तादृशार्थप्रतीतेस्तदनावश्यकता प्रदर्शितेत्यवसेयम् । अनन्तरं च प्रमाणरूपसकलादेशेन कालात्मस्वपरादिभिर्भेदवृत्त्या अभेदोपचारेण वा नयरूपविकलादेशेन च भेदवृत्त्याभेदोपचारेण घटादिरूपार्थप्रतिपादनं कृतम् तत्र च कालादिना सर्वेषामभेदः प्रदर्शितः । यथा यत्कालावच्छेदेन च घटादावस्तिवं वर्तते तत्कालावच्छेदेनान्याशेषधर्मा अपि तत्रैव सन्ति एवंरीत्या कालेनाभेदवृत्तिस्तथैवात्मस्वरूपादिभिः प्रतिपादिता। पूर्वोक्तरीत्या पदार्थनिरूपणानन्तरं वाक्यार्थनिरूपणमखरूपाद्यवच्छिन्तास्तिवाश्रयः पररूपाचवच्छिन्ननास्तिलाश्रयो घट इत्यादिरूपेण प्रतिपादितम् । तत्पश्चात् केच घटस्य स्वरूपादयः केच पटरूपादय इति शङ्कामुपन्यस्य घट इत्याकारकबुद्धौ प्रकारतया भासमानो घटपदशक्यतावच्छेदकीभूतो यः सदृशपरिणामलक्षणो घटत्वरूपधर्मः स एव घटस्य स्वरूपं तदन्यपटत्वादिकं पररूपमिति स्वरूपेण घटस्यास्तित्वं पररूपेण च नास्तित्वमिति । अथ च पटत्वादिपररूपेणापि घटस्यास्तित्वाङ्गीकारे घटस्य पटात्मकत्वापत्तिः खरूपेणापि नास्तित्वे खरविषाणवत् शून्यतावाद इत्येवमादिना स्वरूपपररूपस्य बहवो विकल्पा उपन्यस्ताः । घटस्य स्वरूपद्रव्यक्षेत्रकालैरस्तित्वं पररूपद्रव्यक्षेत्रकालैश्च नास्तित्वं प्रतिपादितम् । __ अग्रेच सकलपदार्थानां स्वकीयपरकीयस्वरूपादिचतुष्टयेन व्यवस्थायां स्वरूपादीनामप्यन्यत्स्वरूपादिकमपेक्षितमेवैतेषामप्यन्यदित्यनवस्था तथा च यथावस्तुप्रतीतिव्यवस्था कार्येति किं स्वरूपादिनास्तित्वेन पर स्तित्वेन किमित्याशय वस्तुस्वरूपमेव स्वरूपरूपाचवच्छिन्नं सत्खासत्वादिकं विषयीकरोतीति निर्णेतुं ग्रन्थप्रवृत्तेरन्यथा च नाना निरङ्कुशविप्रतिपत्तीर्निवारयितुमशक्तरिति समाहितम् ।। अग्रेच केवलान्वयिप्रमेयादिपदार्थेषु खपररूपादीनामप्रसिद्धः कथं व्यवस्थेत्याशङ्कय तत्रापि प्रमेयत्वं प्रमेयस्य खरूपं, घटत्वादिकं च पररूपं, यद्यपि घटत्वादीनामपि प्रमेयत्वमक्षतं तथापि तत्र प्रमेयत्वरूपेण तद्रूपता नास्तीति विचार्य ग्रन्थकारेण तथा लिखितम् । अथवा प्रमेयत्वं प्रमेयस्य स्वरूपम् अप्रमेयत्वं च प्रमेयस्य पररूपमितिः यद्यपि प्रमेयत्वाभावरूपा प्रमेयत्वस्याप्रसिद्धिस्तथापि गगनकुसुमशशविषाणादौ चाप्रमेयत्वप्रसिद्धिः स्फुटैव तत्र च प्रमाणजन्यप्रमितिविषयताभावेन प्रमेयत्वाभावादिति प्रतिपादितम् । अथाने च महासत्वरूपस्य शुद्धद्रव्यस्य सम्पूर्णद्रव्यक्षेत्रकालभावात्मकतया तद्भिन्नत्वेनान्यद्रव्यभावात् कथं तत्र स्वपररूपादिव्यवस्थेत्याशङ्य तत्रापि सकलद्रव्यक्षेत्रकालादीनां स्वरूपत्वं विकलद्रव्यादीनां च पर । सकलद्रव्यक्षेत्रकालाद्यपेक्षयाऽस्तित्वं विकलद्रव्यक्षेत्रकालाद्यपेक्षया च नास्तित्वमिति समाहितम् । अग्रेचास्तित्वस्य खाश्रयत्वेन वास्तविकवस्तुरूपता, नास्तित्वस्य च पराधीनत्वेन वस्तुरूपतेत्यनेकान्तवादे अस्तित्वमिव नास्तित्वमपि वस्तुरूपमिति डिंडिमघोषणा कैमर्थिकेत्याशय साधर्म्यवैधर्म्ययोरिवास्तित्वनास्तित्वयोरविनाभावः प्रदर्शितः सूक्ष्मबुद्धीनां च घटादिस्वरूपाऽववोधेस्तित्वमिवान्यपदार्थाभावस्यापि प्रतीतेः अन्यप्रतिषेधाभावे च वस्त्वन्तरभानापत्तेः । यद्यपि शशविषाणादिषु नास्तित्वस्यैवावलोकनात्. नास्तित्वमस्तित्वमन्तरापि सम्भवतीति नास्तित्वास्तित्वयोरविनाभावो नास्ति तत्कथं नास्तित्वमपि वस्तुरूपमित्याशङ्कय तत्रापि गोमस्तकादिसमवायित्वेन प्रसिद्धस्य विषाणादेः शशादिसमवायित्वेन च तस्य नास्तित्वमिति निश्चयः एवमेव मेषादिषु समवायित्वेन प्रसिद्धरोम्णः कर्मसमवायित्वेन तस्य निषेध इत्यस्तित्वनास्तित्वयोरविनाभावोक्षत एवेति भ्येयम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 98