Book Title: Saptabhangi Tarangini Author(s): Vimaldas, Pandit Thakurprasad Sharma Publisher: Nirnaysagar Yantralaya Mumbai View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपरमात्मने नमः उपोहातः। प्रचुरपाण्डित्यपूर्णजैनमतामितग्रन्थेषु सप्तभङ्गीतरङ्गिणीनामापूर्वोऽयं जैनतर्कग्रन्थः । अस्य च निर्माता वीरनामकग्रामवास्तव्यः श्रीमदनन्तदेवस्वामिनां प्रियाप्रशिष्यो विमलदासनामा दिगम्बरजैनः । स च तंजानगरे निवसन्नमुं ग्रन्थं प्रणीतवान् । एतनिर्माणकालश्च प्लवङ्गनामसंवत्सरे पुष्यनक्षत्ररविवासरान्वितवैशाखशुद्धाष्टमीति प्रन्थान्ते स एव लिखितवान् परन्वनेन कस्मिन् विक्रमीयाब्दे ख्रीष्टाब्दे वाऽयं ग्रन्थः प्रणीत इति स्पष्टं न प्रतिभाति । अयं पण्डितवरः कदा कीदृशकुलं खजनुषालंचकारेति निर्णतुं न पारयामः । अत्र च जैनमतप्राणभूतानां सप्तभङ्गानां प्राधान्यतो व्याख्यानम् कृतम् । सप्तभङ्गप्रवृत्ती हेतुश्च तत्त्वार्थाधिगमोपायभूतप्रमाणनयात्मकवाक्यानां सप्तधैव प्रवृत्तिः प्रदर्शिता । प्रथमतश्च सप्तभङ्गीनामनिर्वचन लक्षणपुरस्सरं कृतम् सप्तविधप्रश्नप्रवृत्ती हेतुर्हि प्राश्निकसंशयानां सप्तधैवोदयः प्रतिपादितः । संशयसप्तविधत्वं हि निखिलजगदैहिकपारलौकिकसंशयनिश्चयविषयीभूतधर्माणां सप्तधैव प्रवृत्तिः प्रदर्शिता। तेचात्र कथंचित् सत्वम् , कथंचिदसत्वं, क्रमार्पितोभयम् , अवक्तव्यत्वम्, कथंचित्सत्वविशिष्टावक्तव्यत्वम् , कथंचिदसत्वविशिष्टावक्तव्यत्वम्, क्रमार्पितोभयविशिष्टावक्तव्यत्वमिति रूपेणोपन्यस्ताः । एतद्धर्मप्रतिपादकसप्तभङ्गानि सप्तवाक्यानि चैवेमानि,: (१) स्यादस्त्येव घटः, (२) स्यान्नास्त्येव घटः, (३) स्यादस्ति नास्ति च घटः, (४) स्यादवक्तव्य एव घटः, (५) स्यादस्ति च वक्तव्यश्च षटः, (६) स्यान्नास्ति चावक्तव्यश्च घटः, (७) स्यादस्तिनास्ति चावक्तव्यश्च घटः । अनेकतर्कैः सप्तैव भङ्गानां सङ्खथा स्थापिता नापि न्यूना न चाप्यतिरिक्ता एतेषां भङ्गानामन्योन्यभेदप्रदर्शनमपि ग्रन्थकारैः सुविस्तरं प्रोक्तम् । निखिलचेतनाचेतनात्मकवस्तुनि सप्तभङ्गा योजयितुं शक्याः। यथा स्यादस्त्येव घटः अत्र यद्यपि स्याद्वादमते घटस्य सत्त्वमिवासत्वमपि स्वरूपं तथापि प्रथमभङ्गे सत्वस्य प्राधान्येन भानम् असत्त्वस्यचाप्राधान्येन, तथा च प्रकृते कथंचित् सत्वस्य सर्वप्रकाराऽवच्छिन्नसत्वस्य च संशयकोटिता वर्ततेऽत एवायोगव्यवच्छेदबोधकैवकारेण खरूपादिभिः प्रथमभङ्गे कथंचित् सत्वमेव स्थापितम् । बोधश्च कथञ्चित् घटस्यसमानाधिकरणो यः प्रतियोगिव्यधिकरणोऽत्यन्ताभावः तादृशाऽत्यन्ताभावाप्रतियोग्यस्तित्ववान् घट इति एवमेव द्वितीयभङ्गे असलस्य तृतीयभङ्गे क्रमार्पितसखाऽसत्खयोः प्राधान्यमस्ति, चतुर्थेऽ. वक्तव्यत्वस्य प्राधान्यं पञ्चमे सत्वविशिष्टावक्तव्यत्वस्य षष्ठे चासत्वविशिष्टावक्तव्यत्वस्य, सप्तमे च कमयोजितसत्वासत्वविशिष्टावक्तव्यत्वस्य प्राधान्यमुपन्यस्तम् । __ इयं च सप्तभङ्गी प्रमाणसप्तभङ्गी, नयसप्तभङ्गीति भेदेन द्विधोपन्यस्ता । अनन्तरं च सकलादेशः प्रमाणवाक्यं विकलादेशश्च नयवाक्यमित्यादिना प्रमाणनयवाक्यानां विकल्पानुपन्यस्य सिद्धान्तः प्रदर्शितस्तत्सर्व ग्रन्थत एवावसेयम् । प्रथमभङ्गे घटस्य द्रव्यवाचकत्वेन विशेष्यता, अस्तीत्यस्य च गुणवाचकत्वेन विशेषणता प्रतिपादितोकबोधानुरोधादित्यवधेयम् । For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 98