Book Title: Sammati Tark Prakaran Part 02
Author(s): Pravinchandra K Mota
Publisher: Gitarth Ganga
View full book text
________________
सम्मतितई २ भाग-२/द्वितीयsis/गाथा-30
૧૧૧ ज्ञानमिति वदन्ति विद्वांसः । छाद्यस्थिकोपयोगं चात्मा स्वप्रदेशावरणक्षयोपशमद्वारेण प्रतिपद्यते, न त्वनन्तज्ञेयज्ञानस्वभावस्यात्मन एतदेव खण्डशः प्रतिपत्तिलक्षणं पारमार्थिकं रूपं, सामान्यविशेषात्मकवस्तुविस्तरव्यापि युगपत्परिच्छेदस्वभावद्वयात्मकैककेवलावबोधतात्त्विकरूपत्वात् तस्य तच्च तस्य स्वरूपं केवलज्ञानदर्शनावरणकर्मक्षयाविर्भूतं करणक्रमव्यवधानातिवर्तिसकललोकालोकविषयत्रिकालस्वभावपरिणामभेदानन्तपदार्थयुगपत्सामान्यविशेषसाक्षात्करणप्रवृत्तं केवलज्ञानं केवलदर्शनमिति च व्यपदिश्यते । तेन 'अवग्रहरूप आभिनिबोधो दर्शनम् स एव चेहादिरूपो विशेषग्राहको ज्ञानं, तद्व्यतिरिक्तस्यापरस्य ग्राहकस्याभावात् तस्यैवैकस्य तथाग्रहणात् तथाव्यपदेशादुत्फणविफणावस्थासर्पद्रव्यवत्, ततस्तयोरवस्थयोरव्यतिरेकात् तस्य च तद्रूपत्वादेक एवाभिनिबोधो दर्शनं मतिज्ञानं चाभिधीयत इति सूत्रकृतोऽभिप्रायः' इति यत् कैश्चिद् व्याख्यातं तदसङ्गतं लक्ष्यते आगमविरोधात् युक्तिविरोधाच्च, न ह्येकान्ततोऽभेदे पूर्वमवग्रहो दर्शनं पश्चाद् ईहादिकं ज्ञानं, तयोश्च तत्रान्तर्भाव इति शक्यमभिधातुम् कथंचिद् भेदनिबन्धनत्वादस्य, आत्मरूपतया तु तयोरभेदोऽभ्युपगम्यत एव न चैकस्यैव मतिज्ञानस्योभयमध्यपातादुभयव्यपदेशः अवग्रहस्य दर्शनत्वे 'अवग्रहादिधारणापर्यन्तं मतिज्ञानम्' इत्यस्य व्याहतेः तस्य वाऽदर्शनत्वे 'अवग्रहमात्रं दर्शनम्' इत्यस्य विरोधात्, आगमविरोधश्च तद्व्यतिरेकेण दर्शनानभ्युपगमे, तदभ्युपगमे वाऽष्टाविंशतिभेदमतिज्ञानव्यतिरिक्तदर्शनाभ्युपगमात् कुतो ज्ञानमेव दर्शनं छद्मस्थावस्थायाम् ? । केवल्यवस्थायां तु क्षीणावरणस्याऽऽत्मनो नित्योपयुक्तत्वात् सदैव दर्शनावस्था, वर्तमानपरिणतेर्वस्तुनोऽवगमरूपायाः प्राक् तथाभूतानवबोधरूपत्वासंभवात् तथाभूतज्ञानविकलावस्थासंभवे वा प्रागितरपुरुषाविशेषप्रसङ्गात्, ततो युगपज्ज्ञानदर्शनोपयोगद्वयात्मकैकोपयोगरूपः केवलावबोधोऽभ्युपगन्तव्य इति सूरेरभिप्रायः ।।२/३०॥
टीमार्थ:
छद्मस्थावस्थायां ..... सूरेरभिप्रायः ।। ७५स्थ अवस्थामा वणी प्रमाना सने अमेयना सामान्य વિશેષાત્મકપણામાં પણ અનપગત આવરણવાળા આત્માના દર્શન ઉપયોગ સમયમાં જ્ઞાન ઉપયોગનો અસંભવ હોવાથી અપ્રાપ્યકારી એવા ચહ્યું અને મન:પ્રભવ જે અર્થાવગ્રહાદિ મતિજ્ઞાનનો ઉપયોગતેના પ્રાક્તની એવી અવસ્થા જે અસ્પષ્ટ અવભાસી એવા ગ્રાહ્ય પદાર્થના ગ્રાહકપણાની પરિણતિની અવસ્થાથી વ્યવસ્થિત એવા આત્મપ્રબોધરૂપ છે તે ચક્ષ-અચક્ષુદર્શન વ્યપદેશને પ્રાપ્ત કરે છે. અને દ્રવ્યન્દ્રિય, ભાવેન્દ્રિય આલોક મતિજ્ઞાનાવરણ કર્મક્ષયોપશમાદિ સામગ્રી પ્રભવ, રૂપાદિ વિષય ગ્રહણ પરિણતિ આત્માની અવગ્રહરૂપ મતિજ્ઞાનની શબ્દતાને પ્રાપ્ત કરે છે.
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168